________________
५८
दशवैकालिकं-टीकात्रिकयुतम्
]
पडयासाउ रमाई, दिद्वंता हुंति वयसमारुहणे । जहमलिणाहसु दोसा, सुद्धाइसु नेव मिहई पि ||२|| [ एतयोर्लेशोद्देशेनार्थः कथ्यते - पठितायां शास्त्रपरिज्ञायामाचाराङ्गप्रथमाध्ययनरूपायां, दशवैकालिकषड्जीवनिकायिकायां वा "सुयं मे आउसं तेणं" इत्यादि "इच्चेयं छज्जीवणियं सम्मदिट्ठी सया जए" इति गाथान्तायाम्, अर्थतः कथितायाम् - मनोवाक्कायैः कृतकारितानुमतिभेदेन सम्यगधिगतायाम् । परिहरति-अधिगतषड्जीवनिकायस्य शैक्षस्योपस्थापनार्थं परीक्षा क्रियते । सा चैवम् गीतार्थसाधुः शैक्षं पृष्ठतः कृत्वा बहिर्गच्छन् हरितकायोपरि भागेन गच्छति, ततः शैक्षोऽपि यद्युपरि गच्छति तन्नोपस्थापनार्हः, यदि च स्वयं स्थित्वैवं वक्ति "गणिमिश्राः ! साधूनां हरित्कायोपरि गन्तुं न बुध्यते, तत्कथं यूयं गता" इति, ततो गीतार्थः साधुः शीघ्रं वलति वक्ति च "क्षुल्लक ! अपचित्ततया वयं गताः, अत्रार्थे मिथ्या मे दुःकृतम्" इत्युक्त्वा गुरुपार्श्वे गत्वा सर्वं निवेदयति । ततो गुरवः षड्जीवनिकायविराधनापरिहरणाद् योग्य इति । 'छक्कं’तिषट्कं षड्जीवनिकायरूपं परिहरति । नवकेन भेदेन - नवभिभेदैर्मनसा परिहरति, परिहारयति, परिहरन्तमनुमोदते, एवं वाचा, एवं कायेन, इति ज्ञात्वा शैक्षमुपस्थापयन्ति, नान्यथा ।
अत्र पटादयो दृष्टान्ताः– मइलो पडो न रंगिज्जइ, सोहिओ रंगिज्जइ । असोहिए मूलपाए पासाओ न किज्जइ, सोहिए किज्जइ । वमणाईहिं असोहिए आउरे ओसहं न दिज्जइ, सोहिए दिज्जइ । असंठविए [असंस्कृते] रयणे आहरणे पडिबंधो न किज्जइ, संठविए किज्जइ । एवं पढियकहियाईहिं असोहीए सीसे वयारोवो न किज्जइ, सोहिए किज्जइ । असोहियकरणे गुरुणो दोसो, सोहियस्स अपालणे सीसस्स दोसु त्ति कृतं प्रसङ्गेन ।
(स.) इच्चे इति एतच्च रात्रिभोजनविरमणं प्रथम- चरमतीर्थङ्करतीर्थयोः ऋजुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थं पञ्चमहाव्रतोपरि पठितं, मध्यमतीर्थकरतीर्थेषु पुनः ऋजुप्राज्ञपुरुषापेक्षयोत्तरगुण इति. समस्तव्रतानामङ्गीकारकरणकथनार्थमाहइत्येतानि पूर्वं कथितानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि किमित्याह