________________
५७
चतुर्थम् अध्ययनम्
(ति.) षष्ठं व्रतमाह-[अहावरे छढे...] अस्याप्यर्थः प्राग्वत् ।
(स.) अधुना षष्ठं व्रतमाह-अहेति-अथापरस्मिन् षष्ठे व्रते रात्रिभोजनाद् विरमणं. सर्वं हे भदन्त ! रात्रिभोजनं प्रत्याख्यामि, तद्यथा-अश्यत इति अशनमोदनादि. पीयते तत् पानं द्राक्षापानादि, खाद्यत इति खाद्यं 'जम्बूकादि, स्वाद्यं ताम्बूलादि, नैव स्वयं रात्रौ भुजे, नैवान्यै रात्रौ भोजयामि, रात्रौ भुञ्जानानप्यन्यान्न समनुजानामि, इत्येतद्यावज्जीवमित्यादि पूर्ववत्. ६ ।। __ (सु.) अधुना षष्ठं व्रतमाह-'अहावरे' इत्यादि, अथापरस्मिन् षष्ठे व्रते रात्रिभोजनाद् विरमणं, सर्वं भदन्त ! रात्रिभोजनं प्रत्याख्यामीति पूर्ववत्, तद्यथा-अशनं वा पानं वा खाद्यं वा स्वाद्यं वा, अश्यत इति अशनं-ओदनादि, पीयत इति पानं-मृद्वीकापानमित्यादि, खाद्यत इति खाद्यं-खर्जूरादि, स्वाद्यत इति स्वाद्यं-तांबूलादि, 'नेव सयं राइं अँजिज्जा' नैव स्वयं रात्रौ भुजे, नैवान्यै रात्रौ भोजयामि, रात्रौ भुजानानप्यन्यान्नैव समनुजानामीत्येद् यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । एतच्च रात्रिभोजनविरमणं प्रथमचरमतीर्थकरतीर्थयोः ऋजुजड-वक्रजड-पुरुषापेक्षया मूलगुणत्वख्यापनार्थं पंचममहाव्रतोपरि पठितं, मध्यमतीर्थकरतीर्थेषु पुनः ऋजु-प्रज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति ।८।
इच्चेइयाइं पंच महव्वयाई, राइभोयणवेरमणछट्ठाई । अत्तहियट्ठाए, उवसंपज्जित्ता णं विहरामि ।। (सू. ४.९) (ति.) एषां निगमनमाह-इत्येतानि पंच महाव्रतानि रात्रिभोजनविरमणषष्ठानि, आत्महितः-मोक्षः। तदर्थम् । उपसम्पद्य-स्वीकृत्य । विहरामि-साधुविहारेण ।।
इह षड्जीवनिकायिकासम्बद्धानि महाव्रतान्येतदर्थमुक्तानि, येनाभिनवशिष्य एतदर्थज्ञातैवोपस्थापनार्हो भवति । उक्तं च -
पढिए य कहिय अहिगय, परिहर उवठ्ठावणाइ जोगु त्ति । छक्कं तीहिं विसुद्धं, परिहर नवएण भेएण ||१|| [ ]
१.खर्जूरादीति ह ।