________________
दशवैकालिकं-टीकात्रिकयुतम् वा, सुप्तो वा, जाग्रद् वा, रात्रौ सुप्तो दिवा जाग्रत्, कारणिक एकः शेषकालं परिषद्गतः।
(सु.) उक्तः चारित्रधर्मः, सांप्रतं यतनाया अवसरः, तथा चाह-'से भिक्खू वा' इत्यादि, से इति निर्देशे, स योऽसौ महाव्रतयुक्तो, 'भिक्षुर्वा भिक्षुकी वा'-आरम्भत्यागाद् धर्मकायपालनाय भिक्षणशीलो भिक्षुः, एवं भिक्षुक्यपि, पुरुषोत्तमो धर्म इति भिक्षुर्विशेष्यते, तद्विशेषणानि च भिक्षुक्या अपि द्रष्टव्यानीत्याह-'संयत-विरत-प्रतिहतप्रत्याख्यातपापकर्मा' तत्र सामस्त्येन यतः संयतः-सप्तदशप्रकार-संयमोपेतः, विविधमनेकधा द्वादशविधे तपसि रतो विरतः, प्रतिहत-प्रत्याख्यात-पापकर्मेति, प्रतिहतं-स्थितिहासतो ग्रन्थिभेदेन प्रत्याख्यातं-हेत्वभावतः पुनर्वृद्ध्यभावेन, पापं कर्म-ज्ञानावरणादि येन स तथाविधः, दिवा वा रात्रौ वा एको वा परिषद्गतो वा सुप्तो वा जाग्रद् वा, रात्रौ सुप्तो दिवा जाग्रत्, कारणिक एकः, शेषकालं परिषद्गतः,
से पुढविं वा, भित्तिं वा, सिलं वा, लेखें वा, ससरखं वा कायं, ससरक्खं वा वत्थं, हत्थेण वा, पाएण वा, कटेण वा, कलिंचेण वा, अंगुलियाए वा, सिलागाए वा, सिलागाहत्येण वा, नालिहिज्जा, न विलिहिज्जा, न घट्टिज्जा, न भिंदिज्जा, अन्नं नालिहाविज्जा, न विलिहाविज्जा, न घट्टाविज्जा, न भिंदाविज्जा, अन्नं आलिहंतं वा, विलिहंतं वा, घट्टतं वा, भिंदंतं वा, न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायाए, कायेणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि 11911 (सू.४.१०)
(ति.) किं तदित्याह-पृथ्वी-लोष्टादिरहिता | भित्तिः-नदीतटी । शिला-विशाल: पाषाणः । लोष्टः-मृन्मयो दृषन्मयो वा । सह रजसा-असञ्चरभूमिरेणुना वर्तत इति सरजस्कं कायं, सरजस्कं वा वस्त्रम्-सजातीयत्वात् पात्राद्यापि । हस्तेन वा, पादेन वा, काष्ठेन वा, कलिंचेन वा-क्षुद्रकाष्ठेन । अङ्गुल्या वा शिलाकया वाअयोमय्या । शिलाकाहस्तेन वा-शिलाकाकलापेन । न आ-ईषद् लिखेत्-रेखां कुर्यात् । न विशेषेण-गाढं लिखेत् । न घट्टयेत्-न चलयेत् । न भिन्द्यात्-विदारयेत् स्वयम् ।