________________
४५
चतुर्थम् अध्ययनम्
(ति.) अथ त्रसाधिकारे इदमाह - 'से'शब्द:-'अथ'शब्दार्थः । अथ ये पुनरमी । अनेके-अनेकसङ्ख्याः । बहवः-बहुप्रकाराः। त्रसाः-प्राणाः' । प्राणाः-उच्छवासादयो विद्यन्ते येषां ते, अभ्रादित्वाद् मत्वर्थीयेऽचि प्राणाः = प्राणिनः इत्यर्थः । तद्यथा - अण्डजाः-पक्षिगृहोलिकाद्याः । पोतादि(दे)व जायन्ते इति पोतजाः-हस्तिवल्गुल्यादयः। जरायुवेष्टिता जायन्ते इति जरायुजाः-गो-महिष्यजाविक-मनुष्याद्याः । रसजा-तक्राऽऽरनालदधितीमनादिषु पायुकृम्याकृतयो-ऽतिसूक्ष्मा भवन्ति । संस्वेदजा-मत्कुणयूकाद्याः । समूर्च्छनजा:-पिपीलिका-मक्षिकाद्याः। उद्भेदजाः-भुवमुद्भिद्य जाताः, पतङ्ग-खञ्जरीटाद्याः । औपपातिकाः-पल्यङ्के देवदूष्यमध्ये उपपातमात्राज्जाताः, न तु गर्भजाः, देवा नारकाश्च। [नारकास्तु कुम्भीमध्ये-इति शेषः]
(स.) इदानीं त्रसाधिकारमाह - से इति-सेशब्दोऽथशब्दार्थः, अथ ये पुनरमी बालादीनामपि प्रसिद्धा अनेके द्वीन्द्रियादिभेदेन बहव एकैकस्यां जातौ त्रसाः, प्राणिनः, त्रसन्तीति त्रसाः प्राणा उच्छवासादयो येषां ते प्राणिनः, ते के ?- इत्याह-एष खलु षष्ठो जीवनिकायस्त्रसकाय इति प्रोच्यत इति योगः. तत्राण्डाज्जाता अण्डजाः पक्षिगृहकोकिलादयः, पोतादिवज्जायन्त इति पोतजास्ते च हस्ति-वल्गुली-चर्मजलौकादयः, जरायुभिर्वेष्टिता जायन्त इति जरायुजा गो-महिष्य-ऽजाविक-मनुष्यादयः, रसाज्जाता रसजा आरनाल-दधि-तेमनादिषु प्रायः कृम्यादयो-ऽतिसूक्ष्मा भवन्ति, संस्वेदाज्जाता इति संस्वेदजा मत्कुण-यूकादयः, संमूर्छनाज्जाताः संमूर्छिमाः शलभ-पिपीलिकामक्षिका-शालूकादयः, उद्देदाज्जन्म येषां ते उद्भेदजा पतङ्ग-खञ्जरीट-पारिप्लवादयः, उपपाताज्जाता उपपातजाः उपपाते वा भवा औपपातिका- देवा नारकाश्च ।।
(सु.) इदानीं त्रसाधिकार एतदेवाह - ‘से जे पुण इमे' सेशब्दोऽथशब्दार्थः, असावप्युपन्यासार्थः, "अथ प्रक्रिया-प्रश्ना-ऽनन्तर्य-मङ्गलोपन्यास-प्रतिवचन-समुच्चयेषु" इति [ ] वचनात, अथ ये पुनरमी-बालादीनामपि प्रसिद्धा अनेके-द्वीन्द्रियादिभेदेन बहव एकैकस्यां जातो, असाः प्राणिनः, त्रस्यन्तीति साः, प्राणा-उच्छ्वासादय एषां विद्यन्त इति प्राणिनः, तद्यथा-अण्डजा इत्यादि, एष खलु षष्ठो जीवनिकायस्त्रसकायः प्रोच्यत इति योगः, तत्राण्डाज्जाता अण्डजाः-पक्षिगृहिकोलिका(किला)दयः, पोता एव जायन्ते पोतजाः, ते च हस्ति-वल्गुली-चर्मजलौकाप्रभृतयः, जरायुवेष्टिता जायन्त
१. णाः उच्छ्वा. १.१० ।। २.अभ्रादिभ्यः [सि.हे.७.२.४६] ३. उद्भेदाज्जायन्त इति विग्रहः साधुः ।