________________
दशवैकालिकं-टीकात्रिकयुतम्
४४
यावत् प्रथमपत्रं शेषपत्रपुष्पफलाद्यन्ये जीवाः कुर्वन्ति ।
(स.) इदानीं वनस्पतिजीवानां विशेषभेदप्रतिपादनार्थमाह-[तं जहा-अग्ग...] तमिति-अग्रं बीजं येषां तेऽग्रबीजाः कोरण्टकादयः, एवं मूलं बीजं येषां ते मूलबीजा उत्पलकन्दादयः, पर्व बीजं येषां ते पर्वबीजा इक्ष्वादयः, स्कन्धो बीजं येषां ते स्कन्धबीजाः शल्लक्यादयः, बीजाद्रोहन्तीति बीजरुहाः शाल्यादयः, संमूर्छन्तीति संमूर्छिमाः प्रसिद्धबीजाभावेऽपि पृथिवीवर्षादिसमुद्भवाः, ते तथाविधास्तृणादयः, न चैते न संभवन्ति दग्धभूमावपि सम्भवात् तथा तृणलता वनस्पतिकायिका इत्यत्र तृणलताग्रहणं स्वगतानेकभेदसन्दर्शनार्थं वनस्पतिकायिकग्रहणं सूक्ष्मबादरादिकानेकवनस्पति भेदसंग्रहार्थम्, एतेन पृथिव्यादीनामपि स्वगता भेदाः सूचिताः. कथमित्याह-पृथिव्यः शर्करादयः, आपोऽवश्याय - मिहिकादयः, अग्नयोङ्गार- ज्वालादयः, वायवो झञ्झा - मण्डलिकादयः, एतेऽग्रबीजादयः सबीजाश्चित्तवन्त आख्याताः कथिता इति. एतेन पूर्वकथिता विशेषाः सजीवाः स्वस्वनिबन्धनाश्चित्तवन्त आत्मवन्त आख्याताः कथिताः एते चानेकजीवा इत्यादिकध्रुवगण्डिका पूर्ववत् ।
(सु.) इदानीं वनस्पतिजीवविशेषप्रतिपादनायाह- 'तंजहा अग्गबीया' इत्यादि, तद् यथा उपन्यासार्थः, अग्रं बीजं येषां ते अग्रबीजा:- कोरण्टकादयः, एवं मूलं बीजं येषां ते मूलबीजा:- उत्पलकन्दादयः, पर्व बीजं येषां ते पर्वबीजाः - इक्ष्वादयः, स्कन्धो बीजं येषां ते स्कन्धबीजाः - शल्लक्यादयः, बीजाद् रोहन्तीति बीजरुहाः- शाल्यादयः, संमूर्च्छन्तीति संमूर्च्छिमाः - प्रसिद्ध बीजाभावेन पृथिवीवर्षादिसमुद्भवास्ते तथाविधास्तृणादयः, न चैते न संभवन्ति, दग्धभूमावपि संभवात्, तथा तृण- लता - वनस्पतिकायिका इति, अत्र तृणलताग्रहणं स्वगतानेकभेदसंदर्शनार्थं, वनस्पतिकायिकग्रहणं सूक्ष्मबादराद्यनेकवनस्पतिभेदसङ्ग्रहार्थं, एतेन पृथिव्यादीनामपि स्वगता भेदाः पृथिवी-शर्करादयः, तथा आपोऽवश्याय-मिहिकादयः, अग्नयः अङ्गार - ज्वालादयः, वायवो झञ्झामण्डलिकादयो भेदाः सूचिता इति, सबीजाश्चित्तवन्तः 'आख्याताः' -कथिता इति । एते ह्यनन्तरोदिता वनस्पतिविशेषाः सबीजाः - स्वस्वनिबन्धनाश्चित्तवन्तः-आत्मवन्त आख्याताः-कथिताः । एते चानेकजीवा इत्यादि ध्रुवगण्डिका पूर्ववत् ।।
सेजे पुण इमे अगे बहवे तसा पाणा, तं जहा - अंडया पोयया जराउया रसया संसे (इ)मा समुच्छिमा अब्भिया उववाइया ।