________________
४३
चतुर्थम् अध्ययनम्
"दव्वं सत्थग्गि-विसं-नेह-ऽबिल-खार-लोणमाईयं । भावो उ दुप्पउत्तो वाया काओ अविरई य ।।१।। [दश. नि. २६] किंची सकायसत्थं, किंची परकाय तदुभयं किंची । एयं तु दव्वसत्थं भावे अस्संजमो सत्यं ।।२।।" [दश. नि. २७]
धावनवल्गनोत्खननादिः, एतानि स्वपरव्यापादकत्वात् कर्मबन्ध-निबन्धनत्वात् शस्त्रमिति, तच्च किंचित् स्वकायशस्त्रं-यथा कृष्णा मृन्नीलादिमृदः शस्त्रं, एवं गन्धरस-स्पर्शभेदेऽपि शस्त्रयोजना कार्या, तथा किंचित् परकायेऽपि परकायशस्त्रं-यथा पृथ्वी अप्-तेजःप्रभृतीनाम्, अप्-तेजःप्रभूतयो वा पृथिव्याः, तदुभयं किंचिदिति किंचित्तदुभयशस्त्रं भवति, यथा कृष्णा मृद् उदकस्य पाण्डुमृदश्च परस्परं स्पर्शगन्धादिभिः, यदा कृष्णमृदा कलुषितमुदकं भवति तदाऽसौ कृष्णमृदुदकस्य पाण्डुमृदश्च शस्त्रं भवति, एवं च परिणतायां पृथिव्यामुच्चारादिकरणेऽपि नास्ति तदतिपात इत्यहिंसकत्वोपपत्तेः सम्भवी साधुधर्म इति । एवमापश्चित्तवत्य आख्याताः, तेजश्चित्तवदाख्यातं, वायुश्चित्तवानाख्यातः, वनस्पतिश्चित्तवानाख्यातः, इत्याद्यपि द्रष्टव्यम् ।
(तं जहा) अग्गबीया मूलबीया पोरबीया खंधबीया बीयरूहा समुच्छिमा तणलया, वण्णस्सइकाईया सबीया चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं।
(ति.) वनस्पतीनां जीव[त्वं] विशेषेणाह – अग्रबीजाः-कोरण्टकाद्याः । मूलबीजाःउत्पलकन्दाद्याः । पर्वबीजाः-इक्ष्वाद्याः । स्कन्धबीजाः-शल्लक्याद्याः । बीजरुहा:शाल्याद्याः । सम्मूर्च्छन-सम्मूर्छा, 'सम्मूर्च्छया निवृताः समूर्छिमाः, "भावादिमः" [सि. सू. ६.४,२१] इतीमः, अबीजाः सर्वसङ्ग्रहार्थं चैतत् । तृणलताः-वनस्पतिकायिकाः, तृणशब्देन तृणजातेः, लताशब्देन वृक्षजातेर्ग्रहणम् । वनस्पतयः-प्रत्येकजीवाऽसङ्ख्यातजीवा-ऽनन्तजीवाद्यनेकभेदाः । सबीजाः चित्तवन्त- इत्यर्थः प्राग्वत् ।
अत्राशङ्का-किं बीजजीव एव मूलजीवो' भवति ?, उतान्यः पृथ्वीकायिकादिः तस्मिन् व्युत्क्रान्ते उत्पद्यते ।
अत्रोत्तरम्-बीजजीव एव व्युत्क्रम्य मूलजीवत्वेनोत्पद्यते, ततः किशलयावस्थामनन्तजीवाः कुर्वन्ति । तेषां स्थितिक्षये मूलजीव एव तत्तनूं स्वशरीरतया परिणम्यावतिष्ठते। १. सम्मूर्च्छतया नि. ६-१०.१२ ।। २.०वी ३-५ ७, वा भवन्त्यु. १ ।।