________________
४२
दशवैकालिकं-टीकात्रिकयुतम् ____ अत एवाह-किंभूता पृथिवी ? 'पुढोसत्ता' पृथक्सत्त्वाः प्राणिनो यस्यां सा पृथक्सत्त्वा, अगुलस्यासंख्येयभागमात्रावगाहनरैनेकैः पार्थिवजीवैः समाश्रितेति भावः । आहयद्येवं जीवपिण्डरूपा पृथिवी, तदा तस्यामुच्चारादिकरणेन नियमतस्तन्मरणादहिंसाया अनुत्पत्तिः स्यात्, तथा च सति साधुधर्मस्यासंभवः स्यात्. अतोऽत्राह-अन्यत्र शस्त्रपरिणतायाः, शस्त्रपरिणतां पृथिवीं विहायान्या पृथिवी, चित्तवत्याख्याता इत्यर्थः । पृथिव्याः शस्त्रं त्रिधा-स्वकायशस्त्रं, परकायशस्त्रं, तदुभयशस्त्रं च, तत्र स्वकायशस्त्रंयथा-कृष्णमृद् नीलादिमृदः शस्त्रम्, एवं गन्ध-रस-स्पर्शसंभेदेऽपि शस्त्रयोजना कार्या. परकायशस्त्रं यथा-अप्-तेजःप्रभृतीनां पृथिवी, अथवा पृथिव्या अप-तेजःप्रभृतयः. तदुभयं यथा-कृष्णमृदुदकस्य पाण्डुमृदश्च परस्परस्पर्शगन्धादिभिः. यदा कृष्णमृदा कलुषितमुदकं भवति तदैषा कृष्णमृदुदकस्य पाण्डुमृदश्च शस्त्रं भवति. एवं च परिणतायां पृथिव्यामुच्चारादिकरणेऽपि नास्ति तन्मरणं, ततोऽहिंसाधर्मः साधूनां संभवत्येव. एवमापश्चित्तवत्य आख्याताः, तेजश्चित्तवदाख्यातं, वायुश्चित्त-वानाख्यातः, वनस्पतिश्चित्तवानाख्यात इत्याद्यपि द्रष्टव्यम् ।।
(सु.) विप्रतिपत्तिनिरासार्थं पुनराह-'पुढवी चित्तमंतमक्खाया' पृथिवी-उक्तलक्षणा चित्तं-जीवलक्षणं, तदस्या अस्तीति चित्तवती-सजीवेत्यर्थः, पाठान्तरं वा 'पुढवी चित्तमत्तमक्खाया,' अत्र मात्रशब्दः स्तोकवाची, यथा "सर्षपत्रिभागमात्रम्"इति, ततश्चित्तमात्रास्तोकचित्तेत्यर्थः, तथा च प्रबलमोहोदयात् सर्वजघन्यं चैतन्यमेकेन्द्रियाणां तदधिकं द्वीन्द्रियादीनामिति, आख्याता सर्वज्ञेन कथिता, इयं चानेकजीवा-अनेके जीवा यस्यां सा अनेकजीवा, न पुनरेकजीवा, यथा वैदिकानां "पृथिवी देवता" इत्येवमादिवचनप्रामाण्यादिति। अनेकजीवापि कैश्चिदेकभूतात्मापेक्षयेष्यत एव, यथाहुरेके
"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ।।१।।"
अत आह-पुढो सत्ता-पृथक् सत्त्वाः-प्राणिनो (आत्मानो) यस्यां सा पृथक्सत्त्वा, अङ्गुलासंख्येयभागमात्रावगाहनया पारमार्थिकानेकजीवसमाश्रितेति भावः, आह-यद्येवं जीवपिण्डरूपा पृथ्वी, ततस्तस्यामुच्चारादिकरणेन नियमतस्तदतिपातादहिंसकत्वानुपपत्तिरित्यसंभवी साधुधर्म इत्याह-अन्यत्र शस्त्रपरिणतायाः-शस्त्रपरिणतां पृथिवीं विहायान्या चित्तवत्याख्यातेत्यर्थः, अथ किं पृथिव्याः शस्त्रं ?, -