________________
दशवैकालिकं- टीकात्रिकयुतम्
४०
इह च सर्वभूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानम् ।
(सु.) 'तंजहा—पुढविकाइया' इत्यादि, अत्र तद्यथेत्युदाहरणोपन्यासार्थः, पृथिवीकाठिन्यलक्षणा प्रतीता, सैव कायः शरीरं येषां ते पृथिवीकायाः, पृथिवीकाया एव पृथिवीकायिकाः, स्वार्थिके कप्रत्ययः । आपो - द्रवाः प्रतीतास्ता एव कायः शरीरं येषां ते अप्काया, अप्काया एव अप्कायिकाः, तेजः- उष्णलक्षणं प्रतीतं, तदेव कायः शरीरं येषां ते तेजस्कायाः, तेजस्काया एव तेजस्कायिकाः, वायुश्चलनधर्म्मा प्रतीत एव स एव काय:शरीरं येषां ते वायुकाया, वायुकाया एव वायुकायिकाः, वनस्पतिः- लतादिरूपः प्रतीतः, स एव कायः शरीरं येषां ते वनस्पतिकायाः, वनस्पतिकाया एव वनस्पतिकायिकाः, एवं त्रसनशीलास्त्रसाः प्रतीताः, त एव कायाः - शरीराणि येषां ते त्रसकायाः, सकाया एव त्रसकायिकाः । इह च सर्वभूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानं, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानां तदनन्तमप्प्रतिपक्षत्वात् तेजस्कायिकानां तदनन्तरं तेजस उपष्टम्भकत्वाद् वायुकायिकानां तदनन्तरं वायोः शाखाप्रचलनादिगम्यत्वाद् वनस्पतिकायिकानां, तदनन्तरं च वनस्पतेस्त्रसोपग्राहकत्वात् त्रसकायिकानामिति ।
पुढवी चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, आऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, तेऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणणं, वाऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, (ति) पुनरेषां जीवत्वं प्रकटयन्नाह पृथ्वी चित्तमती- सचित्ता अथवा चित्तमात्रा, चित्तं-चैतन्यं, तत् स्तोकम् एकेन्द्रियाणाम्, ततोऽधिकाधिकं द्वीन्द्रियादीनाम् । आख्यातासर्वज्ञेन कथिता । अनेकजीवाः - असङ्ख्यातजीवाः तेषामेव दृश्यत्वात् ।
-
तथा चागमः
एगस्स दुह्न' तिह्न य, संखिज्जाण व े न पासिउं सक्का । दीसंति सरीराई, पुढविजियाणं असंखिज्जा' ।।१।। [
1
पृथक्सत्त्वा-अङ्गुलासङ्ख्येयभागमात्रावगाहनया
अनेकजीवसमाश्रिता' ।
१. ०ह्नं २.८ ।। २. य ६-८.१० ।। ३ ०खे. ६-८.१० ।। ४. ०ताः ४.५.९.११.१२ ।।