________________
चतुर्थम अध्ययनम्
(ति) शिष्यः पृच्छति [कयरा'इति] - गुरु राह - [इमा' इति]........... उक्तार्थे सूत्रे
(स.) ततः शिष्यः प्राह - कयरा इति-उक्तार्थमेव. अनेनैतद्दर्शयति-मानं त्यक्त्वा संवेगिना शिष्येण सर्वकार्येष्वेवं गुरुः प्रष्टव्यः. अथ शिष्येण प्रश्ने कृते गुरुराह'इमा इति' एतत्सूत्रमपि उक्तार्थमेव, अनेनाप्येतद्दर्शयति-गुणवते शिष्याय गुरुणापि उपदेशो दातव्य एव.
(सु.) शिष्यः पृच्छति - [कयरा...] कतरा खलु इत्यादि सूत्रमुक्तार्थमेव, . अनेनैतदर्शयति-विहायाभिमानं संविग्नेन शिष्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य इति । __ आचार्य आह-इमा खल्वित्यादिसूत्रमुक्तार्थमेव, अनेनाप्येतद्दर्शयति गुणवते शिष्याय गुरुणाऽप्युपदेशो दातव्य एवेति । ___ तं जहा-पुढविकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणस्सइकाइया तसकाइया।
(ति.) तद्यथा-षड्जीवनिकायानाह - पृथ्वी-काठिन्यलक्षणा | आपः-द्रवाः । तेजः-उष्णम् । वायुः-चलनधर्मा । वनस्पतिः-लतादिरूपः । त्रसा:-त्रसनशीलाः । तत्तद्रूपः कायो येषां ते पृथ्वीकायाद्याः । स्वार्थे इकणि [ ] पृथ्वीकायिकाः, अप्कायिकाः, तेजस्कायिकाः, वायुकायिकाः, वनस्पतिकायिकाः, त्रसकायिकाः । इह सर्वभूताधारत्वात् पृथ्व्या इति प्रथमं पृथ्वीकायानामुपन्यासः । ततस्तत्प्रतिष्ठितत्वादप्कायिकानाम् । अथ तत्प्रतिपक्षत्वात् तेजस्कायिकानाम् । तदनु तेजस उपष्टम्भकत्वाद् वायुकायिकानाम् | अनन्तरं वायोः शाखाप्रचलनादिगम्यत्वाद् वनस्पतिकायिकानाम् । अथ वनस्पतेस्त्रसोपयोगित्वात् त्रसकायिकानामिति । __ (स.) अथ षड़जीवनिकामाह - तंजहा = तद् यथा इति उदाहरणे - पृथिवीकाठिन्यलक्षणा प्रतीता, सैव कायः शरीरं येषां ते पृथिवीकायाः, पृथिवीकाया एव पृथिवीकायिकाः, आपो द्रवाः प्रतीता एव, ता एव कायः शरीरं येषां तेऽप्काया, अप्काया एव अप्कायिकाः, तेंज उष्णस्पर्शलक्षणं प्रतीतं, तदेव कायः शरीरं येषां ते तेजःकायाः, तेजःकाया एव तेजःकायिकाः, वायुश्चलनधर्मः प्रतीत एव, स एव कायः शरीरं येषां ते वायुकायाः, वायुकाया एव वायुकायिकाः, वनस्पतिर्लतादिरूपः प्रतीतः, स एव कायः शरीरं येषां ते वनस्पतिकायास्त एव वनस्पतिकायिकाः, एवं त्रसनशीलास्त्रसाः प्रतीता एव, त एव कायाः शरीराणि येषां ते त्रसकायाः, त्रसकाया एव त्रसकायिकाः,