________________
3८
दशवैकालिकं-टीकात्रिकयुतम् दध्यात्मानयनाच्चेतसो विशुद्ध्यापादनं, चेतोविशुद्ध्यापादनाच्च श्रेय आत्मनोऽध्येतुमिति. अन्ये व्याचक्षते-अध्ययनं धर्मप्रज्ञप्तिरिति पूर्वमुपन्यस्तस्याध्ययनस्यैवोपादेयतयानुवादमात्रम्. १.
(सु.) कृतं प्रसङ्गेन प्रकृतमुच्यते [इह खलु...] अत्र खलु षड्जीवनिकायिकानामाध्ययनमस्तीत्युक्तं, अत्राह-षड्जीवनिकायिका केन, प्रविदिता प्ररूपिता वा ? इति उच्यते, तेनैव भगवता, यत आह-समणेणमित्यादि, सा च तेन श्रमणेन-महातपस्विना भगवता-समग्रैश्वर्यादियुक्तेन महावीरेण-कषायादिशत्रुजयान्महावीरः, उक्तं च
"विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ।।१।।"
महांश्चासौ वीरश्च महावीरस्तेन महावीरेण, अत्राह-षड्जीवनिकायिका केन प्रविदिता परूपिता वा ?, इति उच्यते, तेनैव भगवता, यत आह-समणेणमित्यादि, काश्यपेनेति काश्यपगोत्रेण प्रविदिता नान्यतः कुतश्चिदाकर्ण्य ज्ञाता, किं तर्हि ? स्वयमेव केवलालोकेन प्रकर्षेण विदिता-ज्ञातेत्यर्थः, स्वाख्यातेति सदेवमनुष्यासुरायां पर्षदि सुष्ठु आख्याता-स्वाख्याता, सुप्रज्ञप्तेति, यथैवाख्याता तथैव सुष्ठु सूक्ष्मपरिहारासेवनेन प्रकर्षेण सम्यगासेवितेत्यर्थः अनेकार्थत्वाद्धातूनां "ज्ञपिरासेवनार्थः," [ ] तां चैवम्भूतां षड़जीवनिकायिकां श्रेयो मेऽध्येतुमिति, श्रेय-पथ्यं हितं, मे इति आत्मनिर्देशः, छान्दसत्वात् सामान्येनात्मनिर्देश इत्यन्ये, ततश्च श्रेय आत्मनोऽध्येतुमिति पठितुं श्रोतुं भावयितुं, कुत इत्याह-अध्ययनं धर्मप्रज्ञप्तिः, "निमित्त-कारण-हेतुषु सर्वासां प्रायोदर्शन"मिति [ ] वचनात्, "हेतौ प्रथमा" अध्ययनत्वात्, अध्यात्मानयनात् चेतसो विशुद्ध्यापादनादित्यर्थः, एतदेव कुत ?, इत्याह-धर्मप्रज्ञप्तेः, प्रज्ञपनं प्रज्ञप्तिः, धर्मस्य प्रज्ञप्तिः धर्मप्रज्ञप्तिस्ततो धर्मप्रज्ञप्तेः कारणात् चेतसो विशुद्ध्यापादनं, चेतोविशुद्ध्यापादनाच्च श्रेय आत्मनोऽध्येतुमिति, अन्ये तु व्याचक्षते-अध्ययनं धर्मप्रज्ञप्तिरिति, पूर्वोपन्यस्ताध्ययनस्यैवोपादेयतया अनुवादमात्रमेतदिति । ___ कयरा खलु सा छज्जीवणीयानामज्झयणं समणेणं भगवा महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता, सेयं मे अहिज्जिउं अज्झयणं धम्मपन्नत्ती ।
इमा खलु सा छज्जीवणीयानामऽज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता, ज्ञेयं से अहिज्जिउं अज्झयणं धम्मपन्नत्ती ।