________________
३७
चतुर्थम् अध्ययनम्
अथवा आवसंतेणं'इति, गुरुमूलमावसता, अनेन च शिष्येण गुरुचरणसेविना सदा भाव्यमित्येतदाह, ज्ञानादिवृद्धिसद्भावाद्, उक्तं च-"
नाणस्स होइ भागी, थिरतरतो दंसणे चरित्ते य । धन्ना यावकहाए, गुरुकुलवासं न मुंचंति ।।१।।"
अथवा आउसंतेणं-आमृशता भगवत्पादारविन्दयुगलमुत्तमाङ्गेन, अनेन च विनयप्रतिपत्तेर्गरीयस्त्वमाह, विनयस्य मोक्षमूलत्वात्, उक्तं च
"मूलं संसारस्स उ होंति कसाया अणंतपत्तस्स | विणओ ठाणपउत्तो दुक्खविमुक्खस्स मोक्खस्स ||१||" कृतं प्रसंगेन, प्रकृतमुच्यते
इह खलु छज्जीवणियानामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता, सेयं मे अहिज्जिउं अज्झयणं धम्मपन्नत्ती ।।
(ति.) किं तद् इति ? आह - इह-प्रवचने जैने । खलु-निश्चयेन, नान्यत्र | षड्जीव-कायिकानामाध्ययनम् - इत्यध्ययनरूपा | श्रमणेन भगवता महावीरेण काश्यपेनकाश्यपसगोत्रेण । प्रवेदिता केवलालोकात् प्रकर्षेण वेदिता ज्ञाता । स्वाख्यातासदेवमनुजासुरायां पर्षदि कथिता । सुप्रज्ञप्ता-यथैवाख्याता तथैवासेविता, अनेकार्थत्वाद्धातूनां 'ज्ञपिरासेवनार्थः' [ ] । अतः श्रेयो मेऽध्येतुमध्ययनम-षड़जीवनिकायिकाख्यम्, इह पुनरध्ययनाभिधानं पूर्वोक्तानुवादमात्रमेव । धर्मप्रज्ञप्तिः-धर्मस्य प्रज्ञप्तिर्यतस्तद्धर्मप्रज्ञप्तिः ।
(स.) किंभूतेन भगवता आख्यातम् ? इति पृष्टे आह - एषा [इह] खलु षड्जीवनिकानामाध्ययनं श्रमणेन महातपस्विना भगवता समग्रैश्वर्यादियुक्तेन महावीरेण कषायादिवैरिजयान्महासुभटेन. किंभूतेन ? काश्यपेन काश्यपगोत्रेण प्रवेदिता ज्ञाता, न कुतश्चिदाकर्ण्य ज्ञाता, किन्तु स्वयमेव केवलज्ञानेन प्रकर्षेण विदिता ज्ञाता. पुनः स्वाख्याता, सुष्ठु द्वादशपर्षन्मध्ये आख्याता, तथा सुप्रज्ञप्ता, यथैव व्याख्याता तथैव सूक्ष्मपरिहारासेवनेन प्रकर्षण सम्यगासेवितेत्यर्थः. तां चैवंभूतां षड्जीवनिकां श्रेयो मे ममाध्येतुं, श्रेयः पथ्यं हितं पठितुं श्रोतुं भावयितुं. कुत इत्याह-अध्ययनं धर्मप्रज्ञप्तिः, "निमित्त-कारण-हेतुषु सर्वासां प्रायो दर्शनम्" इति वचनात् “हेतौ प्रथमा", अध्ययनत्वा