________________
३६
दशवैकालिकं-टीकात्रिकयुतम् गतमिति पर्यायाः, मयेत्यात्मपरामर्शः, आयुरस्यास्तीत्यायुष्मान्, तस्यामन्त्रणं हे आयुष्मन !, कः कमेवमाह ?-गौतमः सुधर्मस्वामी वा, जंबूस्वामिनमिति, तेनेति भुवनभर्तुः परामर्शः, भगः-समग्रैश्वर्यादिः, सोऽस्यास्तीति भगवान्, तेन भगवता वर्द्धमानस्वामिनेत्यर्थः, एवमिति प्रकारवचनः शब्दः, आख्यातमिति केवलज्ञानेनोपलभ्यावेदितं, किमत आहइह खलु षड्जीवनिकायिकानामाध्ययनमस्तीति वाक्यशेषः, इह तु लोके प्रवचने वा, खलु शब्दान्नान्यतीर्थकृत्प्रवचनेषु षड्जीवनिकायिकेति पूर्ववन्नामेत्यभिधानं अध्ययनमिति पूर्ववदेव, इह च श्रुतं मयेत्यनेनात्मपरामर्शेनै-कान्तक्षणभङ्गापोहमाह-तत्रेत्थंभूतार्थानुपपत्तेरिति, उक्तं च
"एगंतखणियपक्खे गहणं चिय सव्वहा न अत्थाणं । अणुसरणसासणाई कुतो य तेलोग(०क्क)सिद्धाइं ? ||१||"
तथा आयुष्मन्निति च प्रधानगुणनिष्पन्नेनामन्त्रणवचसा गुणवते शिष्यायागमरहस्यं देयं नागुणवते इत्याह, तदनुकंपाप्रवृत्तेरिति, उक्तं च
"आमे घडे निहित्तं, जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ ।।१।।"
आयुश्च प्रधानो गुणः, सति तस्मिन्नव्यवच्छित्तिभावात्, 'तेन भगवता एवमाख्यातं'इत्यनेन स्वमनीषिकानिरासाच्छास्त्रपारतन्त्र्यप्रदर्शनेन न ह्यसर्वज्ञेनानात्मवतान्यतस्तथाभूतात् सम्यगनिश्चित्य लोके धर्मदेशना कार्येत्येतदाह विपर्ययसंभवादिति, उक्तं च
"सावज्जऽणवज्जाणं वयणाणं जो न जाणइ विसेसं । वुत्तुं पि तस्स न खमं किमंग पुण देसणं काउं ? ।।१।। किं एत्तो पावयरं सम्म अणहिगयधम्मसब्भावो । अन्नं कुदेसणाए, कट्ठयरागम्मि पाडेइ ।।२।।"
अथवा - अन्यथा व्याख्यायते सूत्रैकदेशः-आउसंतेणं'इति भगवत एव विशेषणं, आयुष्मता भगवता, चिरजीविनेत्यर्थः, मङ्गलवचनं चैतद्, अथवा जीवता साक्षादेव, अनेन च गणधरपरंपरागमस्य जीवनविमुक्तानादिसिद्धवक्तुश्चाऽपोहमाह-देहाद्यभावेन तथाविधप्रयत्नाभावादिति, उक्तं च
"वयणं न कायजोगाभावे ण य सो अणाइसिद्धस्स । गहणम्मि य नो हेऊ सत्थं अत्तागमो कह णु ? ||१।।"