________________
।। चतुर्थं अध्ययनं षड्जीवनिकायिका ।।
सुयं मे आउ तेणं भगवया एवमक्खायं ।
·
(ति.) अनन्तराध्ययने आचारः कथितः । स च षड्जीवनिकायगोचर इत्यनेन सम्बन्धेनायातं षड्जीवनिकायिकाध्ययनं व्याख्यायते तच्चेदम् - सुधर्मस्वामी जम्बूस्वामिनमाह - श्रुतम् - आकर्णितं गृहीतम् । मे मया । हे आयुष्मन् ! तेन भगवता - श्रीवर्धमानस्वामिना । एवमाख्यातम् - केवलज्ञानेनोपलभ्यावेदितम् ।
(स.) व्याख्यातं क्षुल्लकाचारकथाख्यं तृतीयमध्यययनम्, अथ चतुर्थं षड्जीवनिकायाख्यमध्ययनं व्याख्यायते-पूर्वोक्ताध्ययनेनास्याऽध्ययनस्यायं सम्बन्धः- पूर्वं साधुनाचारे धृतिः कार्या न त्वनाचार इत्युक्तम् - अयमेव चात्मसंयमे उपायः, स चाचारः षड्जीवनिकायगोचरः, अतः षड्जीवनिकायाः प्रोच्यन्ते - तत्र सूत्रम् सुअमिति - श्रुतमवधारितं मे इति मया, अत्र श्रीसुधर्मस्वामी जम्बूस्वामिनं प्राह-हे आयुष्मन् ! आयुरस्यास्तीत्यायुष्मान्, तस्य संबुद्धिः, तेन जगत्प्रसिद्धेन भगवता समग्रैश्वर्यादियुक्तेन श्रीवर्धमानस्वामिनैवंप्रकारं वक्ष्यमाणमाख्यातं, केवलज्ञानेनोपलभ्य कथितम् अथवा 'आउसंतेणं' इति समग्रं भगवतो विशेषणं, ‘आउसंतेणं' आयुष्मता चिरजीविना इत्यर्थः; मङ्गलवचनमेतत्. अथवा ‘आवसंतेणं’इति पाठे मयेत्यस्य विशेषणं, किंभूतेन मया ? आवसता गुरुपादमूलसेविना. अथवा 'आमुसंतेणं'इति' पाठे किंभूतेन मया ? आमृशता भगवत्पादारविन्दयुगलं मस्तकेन, अनेन गुरुविनयप्रतिपत्तिरुक्ता.
(सु.) इदानीं षड्जीवनिकायिकाख्यमारभ्यते - अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने साधुना धृतिराचारे कार्या, न त्वनाचारे, अयमेव चात्मसंयमोपाय इत्युक्तम्, इह पुनः स आचारः षड्जीवनिकायगोचरः प्राय इत्येतदुच्यते, उक्तं च"छसु जीवनिकाएसु जे बुहे संजए सया । से चेव होइ विन्नेए, परमत्थेण संजए ||9 ।।"
इत्यनेन सम्बन्धेनायातमिदमध्ययनमिति, तदाह - 'सुयं मे' इत्यादि, श्रूयते तदिति श्रुतं-प्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमात्रं भगवता निसृष्टम्, आत्मीयश्रवणकोटरप्रविष्टं क्षायोपशमिकभावपरिणामाऽऽविर्भावकारणं श्रुतमित्युच्यते श्रुतमवधृतमव