________________
२७
तृतीयम् अध्ययनम् कुल-गण-शिल्पैरन्नार्थम् अहमपि त्वज्जातीय' इत्यादिवाग्भिराजीवनमाजीवस्तवृत्तिता । तप्तानिवृत्तभोजित्वम्-तप्तं तप्तमात्रं न 'त्रिदण्डोत्कलितम्, अत एवानिवृत्तम्-अपरिणतं, तप्तानिर्वृत्तं अर्थादुदकमिति गम्यते, मिश्रोदकभोजित्वमित्यर्थः । आतुरस्मरणानि च क्षुदाद्यातुरैः पूर्वोपभुक्तवालुकादेः स्मरणानि च ।।३.६ ।।
(स.) गिहिणो इति-पुनर्गृहिणो गृहस्थस्य वैयावृत्त्यं, व्यावृत्तस्य भावो वैयावृत्त्यं गृहस्थं प्रति अन्नादिसंपादनमित्यर्थ. तथा या चाजीववृत्तिता जाति-कुल-गण-कर्मशिल्पा-नामाजीवनमाजीवः, तेन वृत्तिराजीववृत्तिः, तस्या भाव आजीववृत्तिता. जात्यादेराजीवनेनात्मपालनमित्यर्थः. तप्तानिवृतभोजित्वं, तप्तं च तदनिवृतं, तप्तानिवृतं, अ-त्रिदण्डोद्धृतं चेति समासः, उदकमिति शेषः, तस्य भोजित्वं मिश्रसचित्तोदकभोजित्वमित्यर्थः. तथा आतुरस्मरणानि च क्षुधादिनातुराणां पीडितानां पूर्वोपभुक्तस्मरणानि. अथवा दोषातुराणामाश्रयदानादीनि. ।।३.६ ।।
(सु.) गिहिणो इति गृहिणो-गृहस्थस्य वैयावृत्यमिति व्यावृत्तभावो वैयावृत्त्यं, गृहस्थं प्रति अन्नादिसंपादनमित्यर्थः, एतदनाचरितमिति २८, तथा चाजीववृत्तिताजाति-कुल-गण-कर्म-शिल्पानामाजीवनं आजीवस्तेन वृत्तिस्तद्भाव आजीववृत्तिता, जात्याद्याजीवनेनान्न-याचनेत्यर्थः, इयं चानाचरिता २९, तथा तप्तानिवृत्तभोजित्वंतप्तं च तदनिवृत्तं तप्तानिवृत्तं-अ-त्रिदण्डोद्धृतं चेति विग्रहः, उदकमिति विशेषणान्यथानुपपत्त्या गम्यते, तद्भोजित्वं मिश्रसचित्तोदकभोजित्वमित्यर्थः, इदं चानाचरितं ३०, आतुरस्मरणानि च-क्षुधाद्यातुराणां पूर्वोपभुक्तस्मरणानि चानाचरितानि आतुरशरणानि.. वा दोषातुराश्रयदानानीति ३१ ।।३.६ ।।
मूलए सिंगबेरे य, उच्छुखण्डे अनिव्वुडे । कंद(दे) मूले य सचित्ते, फले बीए य आमए ।।३.७।।
(ति.) मूलकं, 'शृङ्गबेरं, इक्षुखण्डं, अनिवृत्तम् इदं च त्रिष्वपि योज्यम् । कन्दः-सूरणादेः । मूलम्-वृक्षादेः । सचित्तं फलम्-वालुकादि । बीजम्-तिलादि । आमकम्-अपक्वसचित्तम् ।।३.७।।
१. ०त्रमत्रि. ६-१२ ।। २. अ-त्रिदण्डोवृत्तम्, अलिनम् इति चूर्णि-बृहट्टीकादिष्वभणितत्वादुत्सूत्रं ज्ञेयम् १ टि. ।। ३. त्रण उकाला इति भाषा. ।। ४. ०लकः २.५.१०.११, ०लं ६-९.१२ ।। ५. आदूः १० टि. ।। ६. काचुं १० टि. ।।