________________
२८
दशवैकालिकं-टीकात्रिकयुतम् (स.) मूलए इति-पुनर्मूलको लोके प्रतीतः, शृंगबेरमाकं, इक्षुखंडं च लोकप्रतीतम्, अनिवृतग्रहणं सर्वत्राभिसंबद्ध्यते, इक्षुखण्डं चापरिणतं द्विपर्वान्तं यद्वर्तते, कन्दो वज्रकन्दादिः, मूलं च सट्टामूलादि सचित्तं, फलं कर्कट्यादि, त्रिपुषादि, बीजं च तिलादि, किंविशिष्टं बीजम् ? आमकं सचित्तम्. ।।३.७।।
(सु.) किञ्च-मूलए'इति मूलको-लोकप्रतीतः, शृङ्गबेरं च आर्द्रकं च तथा इक्षुखण्डं च लोकप्रतीतं, अनिर्वृतग्रहणं सर्वत्राभिसम्बध्यते, अनिर्वृतं-अपरिणतमनाचरितमिति, इक्षुखण्डं चापरिणतं द्विपर्वान्तं यद्वर्तते ३२-३३-३४, तथा कन्दो-वज्रकन्दादिः ३५, मूलं च-सट्टामूलादि सचित्तमनाचरितं ३६, फलं-त्रपुष्यादि ३७, बीजं-तिलादि ३८, आमकं-सचित्तमनाचरितमिति ||३.७।।
सोवच्चले सिंधवे लोणे, रोमालोणे य आमए | सामुद्दे पंसुखारे य, कालालोणे य आमए ||३.८।।
(ति.) तथा सौवर्चलं, सैन्धवं, लवणं, रुमालवणमाऽऽमकम्-रुमा लवणखानिः, तज्जम्। समुद्रः-समुद्रासन्नः । पांशुक्षारः-अथवा शाकम्भरियाक-रजः पांशुक्षारः | तत्र च-अस्थ्याद्यपि पतितं लवणीभवति । कृष्णलवणम्-सिन्धुदेशीयपर्वतैकदेशजम् । आमकम ।।३.८।।
(स.) सोवच्चले इति-पुनः सौवर्चलं, सैन्धवं पर्वतैकदेशजातं, लवणं च सांभरलवणं, रुमालवणं च खानिलवणं, एतत्सर्वमामकं सचित्तमनाचरितं, सामुद्रं लवणमेव, पांशुक्षारश्चोषरलवणं, कृष्णलवणं पर्वतैकदेशजातं, सर्वमामकं ज्ञेयम्. ।।३.८।।
(सु.) 'सोवच्चले ति, सोवर्चलं ३९, सैन्धवं, लवणं ४०, रुमालवणं च ४१, आमकं, आमकमिति सचित्तमनाचरितं, सामुद्र-समुद्रलवणमेव ४२, पांशुक्षारऊषरलवणं ४३, कृष्णलवणं च सैन्धवलवणपर्वतैकदेशजं ४४, आमकमनाचरितमिति ||३.८।।
१. रु. ५.८ ।।