________________
२६
दशवैकालिकं-टीकात्रिकयुतम् पादयोरिति साभिप्रायकं, न त्वापत्कल्पपरिहारार्थे उपग्रहधारणेन २१, तथा समारंभणं समारंभश्च, ज्योतिषः-अग्नेरनाचरितमिति २२, दोषास्त्वष्टापदादीनां प्रसिद्धा एव क्षुण्णा एवेति ।।३.४।।
सिज्जायरपिंडं च, आंसंदी-पलियंकए । गिहतरनिसिज्जा य, गायस्सुवट्टणाणि य ||३.५।।'
(ति.) किञ्च-शय्यातरः-साधुवसतिदाता, तत्पिण्डः । आसन्दक:-मञ्चकः । पर्यङ्कः-पटिकादिव्यूता खट्वा । गृहान्तरनिषद्या च-स्वाश्रयादन्यत्र गृहे निषद्या, निःकारणमासनम् । गात्रस्योद्वर्तनानि-पिष्टिकादिना | चशब्दाद्-अन्योऽपि विलेपनादिसंस्कारः।।३.५।।
(स.) सिज्जेति-शय्यातरपिण्डोऽप्यनाचरितः, शय्या वसतिस्तया तरति संसारमिति शय्यातरः, साधूनां वसतिदाता, तस्य पिण्डः, आसंदक-पर्यङ्कको लोकप्रसिद्धावनाचरितौ. तथा गृहांतरनिषद्या गृहमेव गृहान्तरं गृहयोर्वा अपा(वा)न्तरालं. तत्रोपवेशनं. चशब्दात् पाटकादिपरिग्रहः. तथा गात्रस्य कायस्योद्वर्तनानि पङ्कापनयनलक्षणानि, चशब्दादन्यसंस्कारपरिग्रहः. ।।३.५।।
(सु.) किञ्च-'सिज्जायर' इत्यादि, शय्यातरपिण्डश्चानाचरितः, शय्या-वसतिस्तया तरति संसारमिति शय्यातर:-साधुवसतिदाता तपिण्ड २३, आसन्दक-पर्यंकावनाचरितौ एतौ च लोकप्रसिद्धावेव २४-२५, तथा गृहान्तरनिषद्याऽनाचरिता, गृहमेव गृहान्तरं गृहयोर्वा अपान्तरालं, तत्रोपवेशनं, चशब्दात् पाटकादिपरिग्रहः २६, तथा गात्रस्यकायस्योद्वर्तनानि चानाचरितानि, उद्वर्तनानि पङ्कापनयनलक्षणानि, चशब्दात् तदन्यसंस्कारपरिग्रह इति २७ ।।३.५।।
गिहिणो वेयावडियं, जा य आजीववत्तिआ । तत्तानिबुडभोइतं, आउर-सरणाणि या ।।३.६।। (ति.) तथा गृहिणो वैयावृत्यम्-आसनाद्यर्पणम् । या चाऽऽजीववृत्तिता-जाति
१.०सी १ ।। २.०त्ती.२ या. मुद्रिते ।।