________________
दशवैकालिकं- टीकात्रिकयुतम्
(१८) पावाणं च खलु भो ! कडाणं कम्माणं पुव्विं दुच्चिन्नाणं दुप्पडिकंताणं वेयइत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता । अट्ठारसमं पयं भवइ ।
३६०
(ति.) तथा पापानां च चकारात् पुण्यरूपाणां च । खलु भोः ! कृतानां च मनोवाक्-काय-योगैरोधतो निर्वर्त्तितानाम् । खलुशब्दात् कारितानामनुमतानां च । कर्मणाम्ज्ञानावरणीयादीनाम् । पूर्वम् - अन्यजन्मनि । दुश्चरितानाम् - मिथ्यात्वा ऽविरतिकषाययोगैराचीर्णानां परतीर्थाद्याराधन - मद्यपान - दौःशील्या - ऽनृतलक्षणानां तेषामेव दुःप्रतिक्रान्तानाम्-दुरालोचितानाम्, अनालोचितानां वा । भावतोऽदत्तमिथ्यादुःकृतानां, वेदयित्वानुभूय फलमिति शेषः । मोक्षो भवति । नास्त्यवेदयित्वा - अनेन सकर्मणां मोक्षव्यवच्छेदमाह । तपसा वात्युग्रेण क्षपयित्वा । अतस्तप एव श्रेयो, यतः सर्वकर्मक्षपणेन मोक्षावाप्तिः । तत् किं दुर्गतिदायिना गृहाश्रमेण' ? इति प्रत्युपेक्षणीयम् । अष्टादशं पदं भवति ||१८||
(स.) अथाष्टादशं स्थानमाह - तथा प्रत्येकं पुण्यपापमिति. मातापितृकलत्रादिनिमित्त-मप्यनुष्ठितं पुण्यपापं प्रत्येकं पृथक्-पृथक्, येनानुष्ठितं तस्य कर्तुरेव तदिति भावार्थः, एवमष्टादशं स्थानम्. ।।१८ ।।
(सु.) तथा प्रत्येकं पुण्यपापमिति, माता - पितृ - कलत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं प्रत्येकं प्रत्येकं-पृथक् पृथक् येनानुष्ठितं, तस्य कर्तुरेवैतदिति भावार्थः । एवमष्टादशं स्थानम् ।।१८।।
एतदन्तर्गतो वृद्धाभिप्रायेण शेषग्रन्थः समस्तोऽत्रैव, अन्ये तु व्याचक्षते - सोपक्लेशो गृहिवास इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां काम-भोगा इति चतुर्दशं स्थानं, प्रत्येकं पुण्यपापमिति पञ्चदशमं स्थानं, शेषाण्यभिधीयन्ते,
तथाऽनित्यं खल्वित्यनित्यमेव नियमतो भो ! इत्यामन्त्रणे मनुष्याणां पुंसां जीवितमायुः, एतदेव विशेष्यते - कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रवविषयत्वादत्यन्तासारं, तदलं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति षोडशं स्थानम् ।
तथा बहुं च खलु भोः ! पापं कर्म्म प्रकृतं बहु च चशब्दात् क्लिष्टं च, खलुशब्दोऽवधारणे, बद्धं च पापकर्म्म चारित्रमोहनीयादि, प्रकृतं - निर्वर्तितं मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तेः, नहि प्रभूतक्लिष्टकर्म्मरहितानामेवमकुशला बुद्धिर्भवति, अतो न किञ्चिद् गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति सप्तदशं स्थानम् ।