________________
३५९
१ चूलिका - रतिवाक्या
(सु.) तथा मोक्षः पर्यायोऽनवरतं कर्मनिगडविगमान्मुक्तवदित्येवं चिन्तनीयमिति चतुर्दशं स्थानम् ।।१४।।
(१५) पत्तेयं पुनपावं ।
(ति.) प्रत्येकं पुण्यपापम्-माता-पितृ-कलत्र-पुत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं प्रत्येकं पृथक् पृथग् यद् येनानुष्ठितं, तत् तस्य कर्तुरेव भवति-इति पञ्चदशम् ।।१५।।
(स.) अथ पञ्चदशं स्थानमाह-अत एव गृहवासः सावद्यः सपापः प्राणातिपातमृषावादादीनां पञ्चानामाश्रवाणां सेवनादिति चिन्तनीयमिति पञ्चदशं स्थानम्. ।।१५।।
(सु.) अत एव सावद्यो गृहवास इति सावद्यः-सपापः प्राणातिपातमृषावादादिप्रवृत्तेरित्येतच्चिन्तनीयमिति पञ्चदशं स्थानम् ।।१५।।
(१६) अणिच्चे खलु भो मणुयाण जीविए, कुसग्गजलबिंदुचंचले।
(ति.) अनित्यं खलु-अनित्यमेव । मनुष्याणां जीवितम् । कुशाग्रबिन्दुचञ्चलम्सोपद्रवत्वादनेकोपद्रवविषयत्वात् । अत्यन्तासारम् । तदलं गृहाश्रमेण'-इति षोडशम् ||१६ ।।
(स.) अथ षोडशं स्थानमाह-पर्याय एवमनवद्योऽपापोऽहिंसादिपालनात्मकत्वादेतच्चिन्तनीयमिति षोडशं स्थानम्. ।।१६।।
(सु.) एवमनवद्यः पर्याय इत्यपाप इत्यर्थः, अहिंसादिपालनात्मकत्वादेतच्चिन्तनीयमिति षोडशं स्थानम् ।।१६।।
(१७) बहुं च खलु भो पावं कम्मं पयर्ड |
(ति.) तथा, बहुं च खलु-बह्येव । भोः ! पापम्-क्लिष्टम् । कर्म-चारित्रमोहनीयादि। प्रकृतम्-निर्वर्तितं मया । न हि प्रभूतक्लिष्टकर्मरहितानाम् एवं चारित्रत्यागबुद्धिर्भवति ।।१७।।
(स.) अथ सप्तदशं स्थानमाह-बहुसाधारणा गृहिणां कामभोगा इति, गृहिणां गृहस्थानां कामभोगाः साधारणाश्चोरराजकुलादिसामान्याः, पूर्ववदेतच्चिन्तनीयमिति सप्तदशं स्थानम्. ।।१।।
(सु.) तथा बहुसाधारणा गृहिणां कामभोगा इति, बहुसाधारणाः-चौरराजकुलादिसामान्या गृहिणां-गृहस्थानां कामभोगाः पूर्ववत्, एतच्चिन्तनीयमिति सप्तदशं स्थानम् ।।१७।।