________________
दशवैकालिकं-टीकात्रिकयुतम् विप्रमुक्तानां विविधमनेकप्रकारैः प्रकर्षेण संसारान्मुक्तानां, पुनः किंविशिष्टानां ? तायिनां, त्रायन्ते आत्मानं परमुभयं च ये ते त्रातारस्तेषाम्, - आत्मानं प्रत्येकबुद्धाः, परं तीर्थकराः, उभयं स्थविराः, - तेषामिदं वक्ष्यमाणलक्षणमनाचीर्णमनाचरितमकल्पं, केषाम् इति ?आत्याह-निर्ग्रन्थानां साधूनां, किंविशिष्टानां ? महर्षीणां महतां यतीनाम् ।।३.१।।
(सु.) व्याख्यातं श्रामण्यपूर्विकाख्यमध्ययनं, इदानी क्षुल्लिकाचारकथाख्यातमारभ्यते,-अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने धर्माभ्युपगमे सति, मा भूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्युक्तं, इह तु सा धृतिराचारे कार्या, न त्वनाचारे, अयमेवात्मसंयमोपाय इत्येतदुच्यते, उक्तं च
"तस्यात्मा संयतो यो हि, सदाचारे रतः सदा । स एव धृतिमान् धर्मस्तस्यैव हि जिनोदितः [ ] ||१||" इत्यनेन सम्बन्धेनायातमिति
'संयमे'-उक्तस्वरूपे, शोभनेन प्रकारेणागमनीत्या स्थित आत्मा येषां ते [सुस्थितात्मानः] तथा तेषां, त एव विशेष्यन्ते-विविधैः अनेकैः प्रकारैः प्रकर्षणभावसारं 'मुक्ता'स्तेषां, त एव विशेष्यन्ते-रक्षन्ति आत्मानं परं उभयं चेति त्रातार:आत्मानं प्रत्येकबुद्धाः, परं तीर्थकराः स्वतीर्णत्वात्, उभयं स्थविरा इति, तेषामिदं वक्ष्यमाणलक्षणम् अनाचरितं अकल्प्यं केषाम् इति ?-आह-निग्रंथानां'-साधूनामिति, अभिधानमेतत्, महान्तश्च ते ऋषयश्च महर्षयो-यतय इत्यर्थः, तेषां इह च 'पूर्वपूर्वभाव एवोत्तरोत्तरभावो नियमतो हेतुहेतुमद्भावेन वेदितव्यो', यत एव संयमे सुस्थितात्मानोऽत एव विप्रमुक्ताः, संयमसुस्थितात्मत्वनिबन्धनत्वाद् विप्रमुक्तेः, एवं शेषेष्वपि भावनीयं, अन्ये तु पश्चानुपूर्व्या हेतुहेतुमद्भावं वर्णयन्ति, यत एव महर्षयः, अत एव निर्ग्रन्थाः, एवं शेषेष्वपि भावनीयमिति सूत्रार्थः ।।३.१।।।
उद्देसियं कीयगडं, नियोगमभिहडाणि य । रायभत्ते सिणाणे य, गंध-मल्ले य वीयणे ||३.२।।
१.
आ.८ ||२.०इ. १.३.४ ।। ३. अ वीअणे ८ ।।