________________
।। तृतीयं अध्ययनं क्षुल्लिकाचारकथा ।।
संजमे सुट्ठियप्पाणं, विप्पमुक्काण ताइणं । तेसिमेयमणाइन्नं, निग्गंथाण महेसिणं ।।३.१।। (ति.) इहानन्तराध्ययने श्रामण्यमुक्तं श्रमणेन च विशुद्ध आचारे धृतिः कार्या इत्यनेन सम्बन्धेनायातं क्षुल्लिकाचारकथाध्ययनं तृतीयं व्याख्यायते । तच्चेदम् - संयमे-सप्तदशभेदे चारित्रे । ते चामी-पञ्चाश्रवाद् विरमणं, पञ्चेन्द्रियनिग्रहः, कषायजयः, दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः । अथ चैवं संयमः सप्तदशधा।
पुढवि-दग-अगणि-मारुय-वणसइ-बि-ति-चउ-पणिंदि-अज्जीवे । पेहुप्पेह-पमज्जण-परिठवण-मणो-वइ-काए ||१|| [ ]
सुस्थित आगमनीत्या व्यवस्थित आत्मा येषां ते सुस्थितात्मानः । अत्र सूत्रे प्रथमार्थे षष्ठी । "यत्तदोर्नित्याभिसम्बन्धात्" ये संयमे सुस्थितात्मानः विविधैः सांसारिकै वैः प्रकर्षेण मुक्तास्त्यक्ताः विप्रमुक्ताः । तायिनः-तायङ् पालने [सि. धा. ८०६] षड्जीवनिकायरक्षकाः । तेषां महर्षीणाम् निर्ग्रन्थानाम्-बाह्येन वसत्यादिना, आन्तरेण च क्रोधादिना, ग्रन्थेन परिग्रहेण रहितानाम् । एतद् वक्ष्यमाणमनाचीर्णं चू धातुरार्षः, अनाचरितम् अकल्प्यमित्यर्थः ।।३.१।।
(स.) व्याख्यातं श्रामण्यपूर्विकाख्यं द्वितीयमध्ययनम् । क्षुल्लकाचारकथाख्यमथ तृतीयमध्ययनमारभ्यते - अस्य चायमभिसम्बन्धः-द्वितीयाध्ययने इत्युक्तं-नवदीक्षितेन संयमे-ऽधृतावुत्पन्नायामपि धृतिमता भाव्यम्. अत्र तु सा धृतिराचारे कार्या, न त्वनाचारे, अयमेवात्मसंयमोपायः. उक्तं च"तस्यात्मा संयतो यो हि सदाचारे रतः सदा । स एव धृतिमान् धर्म-स्तस्यैव हि जिनोदितः [ ] ||१||"
इत्यनेन सम्बन्धेनायातमिदमध्ययनं व्याख्यायते-तत्र सूत्रम्-संयमे इति संयमे सुस्थितः शोभनप्रकारेण सिद्धान्तरीत्या स्थित आत्मा येषां तेषां, किंविशिष्टानां ?