________________
२०
दशवैकालिकं-टीकात्रिकयुतम्
"नायज्झयणाहरणा इसिभासियमो पइन्नगसुया य ।
एए होंति अनियया निययं पुण सेसमुस्सण्णं ।।१।।"
तत् कथमभिनवोत्पन्नमिद - मुदाहरणं युज्यत इति ?, उच्यते, एवंभूतार्थस्यैव नियतश्रुतभावाद् उस्सन्नग्रहणाच्चादोषः, प्रायो नियतं न तु सर्वथा नियतमेवेत्यर्थः । ब्रवीमीति न स्वमनीषिकया, किन्तु तीर्थकरगणधरोपदेशेनेति ।।
।। दशवैकालिकश्रुतस्कंधे [सुमति. वृत्तौ ] द्वितीयमध्ययनं टिप्पितमिति ।।