________________
द्वितीयम् अध्ययनम्
(ति.) तथा-एवं कुर्वन्ति । सम्बुद्धाः-ज्ञान(त)विषयस्वरूपाः । पण्डिताः-वान्तभोगाः सेवनदोषज्ञाः । प्रविचक्षणाः-अवद्यभीरवः | विनिवर्तन्ते भोगेभ्यः । यथा असौ पुरुषोत्तमः रथनेमिः । आह पर:-कथमस्य पुरुषोत्तमत्वम् ?, यो हि प्रव्रजितोऽपि विषयानभिलषति। उच्यते-तथाभिलाषेऽप्यप्रवृत्तेः, कापुरुषस्तु अभिलषतानुरूपं चेष्टत एव । इति ब्रवीमितीर्थकृद्गणधरोपदेशेन, न स्वमत्या ।
इति श्रीतिलकाचार्यविरचितायां टीकायां द्वितीयमध्ययनम् (स.) एवमिति-एवं कुर्वते कुर्वन्ति, के ? संबुद्धा बुद्धिमन्तः, अथवा सम्यग्दर्शनसहितेन ज्ञानेन ज्ञातविषयस्वभावाः सम्यग्दृष्टय इत्यर्थः, पुनः किंविशिष्टाः ? पण्डिता वान्तभोगासेवनदोषज्ञाः, पुनः किंविशिष्टाः ? प्रविचक्षणाः पापभीरवः, किं कुर्वन्ति ते इत्याह-निवर्तन्ते दूरीभवन्ति, केभ्यः ? भोगेभ्यो विषयेभ्यः, क इव ? यथासौ पुरुषोत्तमो रथनेमिः, शिष्य आह-ननु कथं तस्य पुरुषोत्तमत्वं ? यो हि गृहीतदीक्षोऽपि विषयाभिलाषी जातः ?
उच्यते-तथाविधेऽभिलाषे जातेऽपि नासौ प्रवृत्तः, कापुरुषस्तु तदनुरूपं चेष्टत एवेति. इति पूर्वोक्तप्रकारेण ब्रवीमि, न स्वबुद्ध्या, किन्तु तीर्थकरुगगधेसमामुपदेशेन. ||२.११।।
।। इति श्रीदशवैकालिकशब्दार्थवृत्तौ श्रीसमयंसुन्दरोपाध्यायविरचितायां द्वितीयमध्ययनं समाप्तम् । व्याख्यातं श्रामण्यपूर्वकाख्यं द्वितीयमध्ययनम् ।।
(सु.) 'एवं करंति इति एवं कुर्वते संबुद्धाः-बुद्धिमन्तो बुद्धाः, सम्यग्दर्शनसाहचर्येण दर्शनेकीभावेन वा बुद्धाः संबुद्धा-विदितविषयस्वभावाः, सम्यग्दृष्टय इत्यर्थः, त एव विशेष्यन्ते पण्डिताः प्रविचक्षणाः, तत्र पण्डिताः प्रविवक्षया सत्रपण्डिताः सम्यग्ज्ञानवन्तः प्रविचक्षणाश्चरणपरिणामवन्तः, अन्ये तु व्याचक्षते संबुद्धा सामान्येन लिमन्ता। पण्डिता-वान्तभोगासेवनदोषज्ञाः, प्रविचक्षणा-अवद्यभीरवः, कि कुर्वन्ति ?-पिनिपर्तन्ते भोगेभ्यो विविधं-अनेकैः प्रकारैरनादिभवाभ्यासबलेन कदीमाना अपि मोहोदयेन निवर्तन्ते भोगेभ्यो-विषयेभ्यो, यथा क इत्यत्राह-यथा असौ पुरुषोत्तमो रथनेमिः । आह-कथं तस्य पुरुषोत्तमत्वं ? यो हि प्रव्रजितोऽपि विषयाभिलाषीति ?, उच्यते, तथाऽभिलाषेऽप्यप्रवृत्तेः, कापुरुषस्त्वभिलाषानुरूपं चेष्टत एवेति । अपरस्त्वाहदशवैकालिकं नियतश्रुतमेव, यत उक्तं