________________
१८
दशवकालिकं-टीकात्रिकयुतम् (स.) जइ'इति-यदि त्वं करिष्यसि भावमभिप्रायं प्रार्थनारूपं, क्व ? या या द्रक्ष्यसि नारीः स्त्रियः तासु, एताः शोभनाः, एताश्च शोभनतराः, (सेव) इत्येवंभूतं भावं यदि करिष्यसि ततो वायाविद्ध इव वातप्रेरित इव हडोऽबद्धमूलो वनस्पतिविशेषः अस्थितात्मा भविष्यसि. कोऽर्थः ? सकलदुःखक्षयकारकेषु संयमगुणेष्वबद्धमूलत्वात् संसारसागरे प्रमादपवनप्रेरित इतश्चेतश्च पर्यटिष्यसि. २.९।। . (सु.) किञ्च-'जइ त मिति, यदि त्वं करिष्यसि भावं-अभिप्रायं प्रार्थनमित्यर्थः, क्व ? - या या द्रक्ष्यसि नारी:-स्त्रियः, तासु एताः शोभनाः शोभनतराः सेवामि'कामयामीत्येवंभूतं भावं यदि करिष्यसि, ततो वायुनाऽऽविद्ध इव हतो-वातप्रेरित इवाबद्धमूलो वनस्पतिविशेषोऽस्थितात्मा भविष्यसि, सकलदुःखक्षयनिबन्धनेषु संयमगुणेष्वबद्धमूलत्वात् संसारसागरे प्रमादपवनप्रेरित इतश्चेतश्च पर्यटिष्यसि ।।२.९।।
तीसे सो वयणं सोच्चा, संजयाए सुभासियं, अंकुसेण जहा नागो, धम्मे संपडिवाइओ ||२.१०।।
(ति.) तस्याः-राजीमत्याः । संयतायाः-प्रव्रजितायाः । स-रथनेमिः । वचनं सुभाषितम्-संवेगरङ्गकारणम् । श्रुत्वा-तेन वचनेन । धर्म सम्प्रतिपादितः-स्थापितः । अङ्कुशेन यथा नागो-हस्ती हस्तिपकेन अपवर्त्य समभूमौ स्थापितः ।।२.१०।। __ (स.) तीसे इति-तस्या राजिमत्या असौ रथनेमिर्वचनं पूर्वोक्तं श्रुत्वा, किंविशिष्टाया राजिमत्याः ? संयताया गृहीतदीक्षायाः, किंविशिष्टं वचनं ? सुभाषितं संवेगजनकं, किंवत् ? अङ्कुशेन यथा नागो हस्ती, एवं धर्मे सम्प्रतिपादितो धर्मे स्थापित इत्यर्थः. ।।२.१०।।
(सु.) 'तीसे सो वयण मिति तस्या-राजीमत्या असौ-रथनेमिर्वचनमनन्तरोदितं श्रुत्वा-आकर्ण्य किंविशिष्टायास्तस्याः ? संयतायाः-प्रव्रजिताया इत्यर्थः, किंविशिष्टं वचनं ?-सुभाषितं-संवेगनिबन्धनं, अकुशेन यथा नागो-हस्ती एवं धर्मे सम्प्रतिपादितोधर्मे स्थापित इत्यर्थः ।।२.१०।।
एवं करिति संबुद्धा, पंडिया पवियक्खणा | विणियटॅति भोगेसु, जहा से पुरिसुत्तमुत्ति बेमि ।।२.११।।
१.सु.६-१० ।। २.अत्र चेयं कथा सा तु अन्यत्र द्रष्टव्या] ३.०मो १० ।।