________________
द्वितीयम् अध्ययनम्
१७
वरिसिएण तिन्ना अयाणंती तमेव गुहमणुपविट्ठा, वत्थाणि य पविसारियाणि, ताहे ती अंगपच्चंगाणि दिट्ठाणि, सो रहनेमी तीए अज्झोववन्नो, दिट्ठो य णाए, इंगियागारकुसलाए णाओ असोहणो भावो एयस्स ।।२.७।।
अहं च भोयरायस्स, तं च सि अंधगवह्नि (णि) णो ।
मा कुले गंधणा होमो, संजमं निहुओ चर ।।२.८ ।।
( ति . ) किं च आवयोर्यत् कुलं तदपि न चिन्तयसि ? - अहं च भोजराज्ञःउग्रसेनस्य दुहिता । त्वं च भवसि अंधकवृष्णः - समुद्रविजयस्य सुतः । अतो मा एकैकस्मिन् प्रधाने कुले सन्तौ आवां गन्धनौ भूव- जघन्यसर्पकुलौ भवावइत्यर्थः । ततः संयमं निभृतश्चर- साधुक्रियाकलापम् अव्याक्षिप्तः कुरु ।।२.८ ।।
२
(स.) ततः सा [ राजिमती] तमिदमवादीत् - अहमिति - अहं च भोगराज्ञ उग्रसेनस्य तु पुत्रीति शेषः, त्वं चासि अन्धकवृष्णेः समुद्रविजयस्य पुत्र इति शेषः, अतः कारणान्मा एकैकप्रधानकुले आवां गन्धनौ भूव, अतः कारणात् संयमं सर्वदुःखनिवारणं क्रियाकलापं निभृतः सन्नव्याक्षिप्तः सन् चर कुर्वित्यर्थः । । २.८ ।।
(सु.) ततो सा तमिदमवोचत् 'अहं चे 'ति अहं च भोगराज्ञः - उग्रसेनस्य दुहितेति गम्यते, त्वं च असि भवसि अंधकवृष्णे :- समुद्रविजयस्य, सुत इति गम्यते, अतो मा एकैकप्रधानकुले आवां गन्धनौ भूव, जह न सप्पतुल्लाइं होमो 'त्ति भणियं अतः संयमं निभृतश्चर-सैर्वदुःखनिवारणं क्रियाकलापमव्याक्षिप्तः कुर्व्विति
होई', ।।२.८ ।।
-
1
जइ तं काहिसि भावं, जा जा दच्छसि नारिँओ । वायविद्धु व्व हढो, अट्ठियप्पा भविस्ससि ।।२.९ ।।
(ति) अपि च- यदि त्वं या या द्रक्ष्यसि । नारी: - रम्या रम्यतरा रम्यतमाश्च । तासु भावम्-कामसेवाभिप्रायं करिष्यसि । ततो वाताविद्ध इव हठः- वातप्रेरित इवाऽबद्धमूलो वनस्पतिविशेषः । अस्थितात्मा-संयमगुणैरप्रतिबद्धमूलः भविष्यसि । विषयवाञ्छावात्याप्रेरित इतश्चेतश्च संसारसागरे पर्यटिष्यसि ।
१. ० . ८ ।। २. भूवं ५, भूत्वा ९.१० ।। ३. चूर्णिः सव्वारतिनिवारणं, ४. ०उ ५-८ ।। ५. 'व्व' पाठः मुद्रितेषु ग्रन्थेषु ।।