________________
१६
धिरत्थु ते जसोकामी, जो तं जीवियकारणा ।
वंतं इच्छसि आवेउं, सेयं ते मरणं भवे ।।२.७।।
दशवैकालिकं-टीकात्रिकयुतम्
(ति.) धिक्शब्दः कुत्सायां धिक् ते - पौरुषं इति गम्यते । हे अयशःकामिन् ! यस्त्वं जीवितकारणात् - असंयमजीवितहेतोः । वान्तम् इच्छसि आपातुम्-वान्ताःपरित्यक्ताः भवता व्रतं गृह्णता भोगाः, ततस्तान् वान्तान् भोगानभिलषसि भोक्तुम् । अतोऽतिक्रान्तमर्यादस्य श्रेयः - शोभनतरम् । ते मरणम्-न पुनरिदमकार्याचरणम् ।।२.७ ।।
|
,
(स.) अथाधिकारापन्नमेवार्थमाह - धिगत्थु इति तत्र राजिमती किल एवमुक्तवती रथनेमिं प्रति-धिगस्तु भवतु ते तव पराक्रममिति शेषः. हे यशःकामिन् ! कीर्तेरभिलाषिन् ! इति रोषेण क्षत्रियामन्त्रणम् अथवा अकारप्रश्लेषात् हे अयशःकामिन् ! धिगस्तु भवतु तव, यस्त्वं जीवितकारणादसंयमजीवितहेतोर्वान्तमिच्छसि आपातुं भगवता परित्यक्तां भोक्तुमिच्छसि अतः श्रेयस्ते तवातिक्रान्तमर्यादस्य मरणं भवेत्, शोभनतरं तव मरणं, न पुनरिदमकर्मासेवनं, - तओ धम्मो से कहिओ, संबुद्धो पव्वइओ अ, राइमई वि तं बोहिऊण पव्वइआ, अन्नया कयाइ सो रहनेमी बारवइओ भिक्खं गहिऊण सामिसगासं आगच्छंतो वास - वद्दलएण अब्भाहओ एगं गुहं पविट्ठो, राइमई वि सामिणो वंदणाए गया, वंदित्ता पडस्सयमागच्छंती य अंतरा वरिसिएण तिन्ना अयाणंती तमेव गुहं अणुपविट्ठा जत्थ सो रहनेमी, दिट्ठा य तेण सोहणा एसा वत्थाणि अपसारिआणि, ताहे तीसे अंगपच्चंगाणि दिट्ठाणि, सो रहनेमी तीए अझोववन्नो दिट्ठो, अणाए अं(इं)गिआगारकुसलाए णाओ अ असोहणो भावो एअस्स. ।।२.७।।
(सु.) तथा ह्यधिकृतार्थसंवाद्येवाह - 'धिरत्थु ' इत्यादि, तत्र राजीमती किलैवमुक्तवती'धिगस्तु' धिक्शब्दः कुत्सायां अस्तु भवतु ते तव पौरुषस्येति गम्यते, हे यशःकामिन्कीर्त्यभिलाषिन् !, सासूयं क्षत्रियामन्त्रणं, अथवा अकारप्रश्लेषात् 'अयशःकामिन् !, धिगस्तु-भवतु तव, यस्त्वं 'जीवितकारणात्' असंयमजीवितहेतोर्वान्त-मिच्छस्यापातुंपरित्यक्तां भगवता-ऽभिलषसि भोक्तुमिति, अतः अतिक्रान्तमर्यादस्य 'श्रेयस्ते मरणं भवेत्' शोभनतरं तव मरणं, न पुनरिदं अकार्यासेवनमिति । - ततो धम्मो से कहिओ, सम्बुद्धो, पव्वइओ य, रायमई वि तं बोहिऊण पव्वइया, अन्नया कयाइ सो रहनेमी बारवईए भिक्खं हिंडिऊण सामिसगासमागच्छंतो वास - वद्दलएण अब्भाहओ एगं गुहं पविट्ठो, रायमई वि सामिणो वंदणयाए गया, वंदित्ता पडस्सयमागच्छंतीए अंतरा