________________
३२६
दशवैकालिकं-टीकात्रिकयुतम् (सु.) अथ चतुर्थ [उद्देशकः] उच्यते, तत्र सामान्येनोक्तविनयविशेषोपदर्शनार्थमाह- सुयं मे इति, श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातमित्येतद् यथा षड्जीवनिकायां तथैव द्रष्टव्यं, इह खल्विति, इह-क्षेत्रे प्रवचने वा, खलुशब्दो विशेषणार्थः, न केवलमिह, किं त्वन्यत्राप्यन्यतीर्थकृत्प्रवचनेष्वपि, स्थविरैःगणधरैर्भगवद्भिः-परमैश्वर्यादियुक्तैश्चत्वारि विनयसमाधिस्थानानि-विनयसमाधिभेदरूपाणि प्रज्ञप्तानि-प्ररूपितानि, भगवतः सकाशे श्रुत्वा ग्रन्थत उपरचितानीत्यर्थः, कतराणि खलु तानीत्यादिना प्रश्नः, अमूनि खलु तानीत्यादिना निर्वचनं, तद्यथेत्युदाहरणोपन्यासार्थ:-विनयसमाधिः (१) श्रुतसमाधिः (२) तपःसमाधिः (३) आचारसमाधिः (४) तत्र समाधानं समाधिः-परमार्थत आत्मनो हितं सुखं स्वास्थ्यं, विनये विनयाद् वा समाधिः विनयसमाधिः, एवं शेषेष्वपि शब्दार्थो भावनीयः । विणए सुए तवे या, आयारे निच्चं पंडिया । अभिरामयंति अप्पाणं, जे भवंति जिइंदिया ||९.४.१।। (ति.) एतदेव श्लोकेन सङ्ग्रह्णाति-विनये श्रुते तपसि आचारे नित्यम् । पण्डिताः-सत्त्वज्ञाः । अभिरमयन्ति-विनयादिषु रतिं कारयन्ति । आत्मानं ये भवन्ति जितेन्द्रियाः ।।९.४.१।। - (स.) उक्तमेव श्लोकेन सङ्ग्रह्णाति-विणए इति–'विणए इत्यादि सूत्रम्' अस्य व्याख्या-विनये यथोक्तलक्षणे, श्रुतेऽङ्गादौ, तपसि बाह्याभ्यन्तररूपे, आचारे च मूलोत्तरगुणरूपे नित्यं सर्वकालं पण्डिताः सम्यक् परमार्थवेदिनः, किंकुर्वन्ति? इत्याहअभिरामयन्त्याभिमुख्येन विनयादिषु युञ्जत आत्मानं जीवं, किमिति, अस्योपादेयत्वात्, क एवं कुर्वन्ति? इत्याह-ये भवन्ति जितेन्द्रिया जितचक्षुरादिभावशत्रव एवं परमार्थः.१.
(सु.) एतदेव श्लोकेन संगृह्णाति-विणए' इत्यादि, विनये-यथोक्तलक्षणे, श्रुतेअङ्गादौ, तपसि-बाह्यादौ, आचारे च-मूलगुणादौ, चशब्दस्य व्यवहित उपन्यासः, नित्यं-सर्वकालं, पण्डिताः-सम्यक् परमार्थवेदिनः, किं कुर्वन्ति ? इत्याह-अभिरमयन्तिधातूनां]नेकार्थत्वादाभिमुख्येन विनयादिषु युञ्जते आत्मानं-जीवं, किमिति ?, अस्योपादेयत्वात्, क एवं कुर्वन्ति ? इत्याह-ये भवन्ति जितेन्द्रिया:-जितचक्षुरादिभावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेतदिति ।।९.४.१।।