________________
।। विनयसमाध्यध्ययने चतुर्थोद्देशकः ।।
सुयं मे आउसं तेणं भगवया एवमक्खायं ।
(ति) विनयविशेषोपदेशार्थमाह - श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम् । इह-प्रवचने । खलु स्थिवरैः गणधरैः, भगवद्भिश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि ।
इह खलु थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पन्नत्ता ।
कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पन्नत्ता ? इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पन्नत्ता ।
(ति) इति प्रश्नः ।
(इमे) इति प्रतिवचनम् ।
तंजहा - विनयसमाही, सुयसमाही, तवसमाही, आयारसमाही । सू.९.४.१
(ति) तद्यथा विनयसमाधिः, श्रुतसमाधिः, तपःसमाधिः, आचारसमाधिः । तत्र समाधानं समाधिः। मनःस्वास्थ्यं विनयेन विनयाद् वा समाधिः विनयसमाधिः । एवं सर्वेष्वपि शब्दार्थो वाच्यः ।
(स.) अथ चतुर्थः उद्देशः प्रारभ्यते सुअं.. इति चतुर्थो व्याख्यायते, तत्र सामान्येन य उक्तो विनयः, तस्य विशेषेणोपदर्शनार्थमिदं प्राह श्रुतं मया हे आयुष्मन् ! तेन भगवता एवमाख्यातमिति, एतद्यथा षड्जीवनिकायां प्रोक्तं तथैव द्रष्टव्यम्, इह क्षेत्रे प्रवचने वा, खलुशब्दो वा विशेषणार्थः, न केवलमिह अन्यत्राप्यन्यतीर्थकर प्रवचने स्थविरैर्गणधरैर्भगवद्भिः परमैश्वर्यादियुक्तैश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि विनयसमाधिभेदरूपाणि प्ररूपितानि, भगवतः समीपे श्रुत्वा ग्रन्थतो रचितानि इत्यर्थः, कतराणि खलु तानि ? इत्यादिप्रश्नः, अमूनि खलु तानि इत्युत्तरदानं, तंद्यथा इत्युदाहरणे, विनयसमाधिः श्रुतसमाधिः, तपस्समाधिः, आचारसमाधिश्च तत्र समाधानं समाधिः, विनये समाधिर्विनयसमाधिः, एवं शेषेष्वपि द्रष्टव्यम् ।