________________
३२४
दशवैकालिकं-टीकात्रिकयुतम्
गुरुमिह सययं पडियरिय मुणी, जिणमयनिउणे अभिगमकुसले । धुणिय रयमलं पुरेकडं भासुरमउलं गई गई ।।९.३.१५।। त्त
(ति.) प्रस्तुतफलाभिधानेनोपसंहरन्नाह - गुरुमिह - मत्र्त्यलोके । सततं प्रतिचर्य विधिनाराध्य मुनिः जिनमतनिपुणः । अभिगमकुशलः - अभिमुखो गमो यस्य सोऽभिगमः प्राघूर्णकः, तत्प्रतिपत्तौ कुशलः । प्राघूर्णकादिप्रतिपत्तिदक्षः । धूत्वा रजोमलं पुराकृतम् । भास्वराम्-तेजोमयीम् । अतुलाम् - अनन्यसमाम् । गतिम् - सिद्धिरूपाम् । गतः । इति ब्रवीमीति प्राग्वत् ।।९.३.१५ ।।
श्रीतिलकाचार्यटीकायां विनयसमाधौ तृतीय उद्देशकः समाप्तः ।।
(स.) अथ प्रस्तुत फलस्यनाम्ना उपसंहरन्नाह - गुरुं ' इति - एवंविधो मुनिर्गतिं सिद्धिरूपां व्रजति गच्छति, किं कृत्वा गुरुमाचार्यादिरूपमिह मनुष्यलोके सततं निरन्तरं विधिनाराध्य, किम्भूतो मुनिः ? जिनमतनिपुण आगमे प्रवीणः पुनः किम्भूतो मुनिः ? अभिगमकुशलः, लोकप्राघूर्णकादिप्रतिपत्तिदक्षः, किं कृत्वा सिद्धिं याति ? रजोमलं पुराकृतं विधूय, अष्टप्रकारं कर्म क्षपयित्वेत्यर्थः किम्भूतां गतिं ? भासुरां ज्ञानतेजोमयीं, पुनः किम्भूतां गतिम्, अतुलाम्, अस्याः सदृश्यन्या गतिर्नास्ति, ब्रवीमीति पूर्ववत्. ।।९.३.१५।।
1
इति श्रीदशवैकालिके समयसुन्दरविरचितायां शब्दार्थवृत्तौ नवमाध्ययने तृतीय उद्देशकः समाप्तः.
(सु.) प्रस्तुतफलाभिधानेनोपसंहरन्नाह - गुरुं... इति, गुरुमाचार्यादिरूपमिहमनुष्यलोके, सततं-अनवरतं, परिचर्य - विधिनाऽऽराध्य मुनिः साधुः, किंविशिष्टो मुनिः ?इत्याह-जिनवचन(मत)निपुणः - आगमे प्रवीणः, अभिगमकुशलो लोकप्राघूर्णकादिप्रतिपत्तिदक्षः, स एवंभूतो विधूय रजोमलं पुराकृतं क्षपयित्वाऽष्टप्रकारं कर्मेति भावः, किम् ? इत्याह-भास्वरां ज्ञानतेजोमयत्वादतुलां - अनन्यसदृशीं गतिं सिद्धिरूपां व्रजतीतिगच्छति, तदा जन्मान्तरेण वा सुकुलप्रत्यागमन - प्रत्ययोत्पादादिना प्रकारेण । ।४५३ ।। ब्रवीमीति पूर्ववत् ।।
इति सुमति० वृत्तौ विनयसमाधावुक्तस्तृतीय उद्देशकः ९-३ ।।