________________
नवमम् अध्ययनम्
अपि शिष्यं सूत्रार्थयोर्वेदिनं दृष्ट्वा महति आचार्यपदे स्थापयन्ति, ततस्तानेवंभूतान् गुरून् यो मानयत्यभ्युत्थानादिना किम्भूतान् गुरून् ? मानयोग्यान् मानार्हान्, स पूज्यः, किम्भूतः शिष्यः ? तपस्वी, पुनः किम्भूतः जितेन्द्रियः पुनः किम्भूतः ? सत्यरतः, इदं शिष्यस्य प्राधान्यख्यापनार्थं विशेषणद्वयम्. ।।९.३.१३।।
(सु.) जे माणिया....इति, ये मानिता अभ्युत्थानादिसत्कारैः, सततं - अनवरतं, शिष्यान् मानयन्ति श्रुतोपदेशं प्रति चोदनादिभिः, तथा यत्नेन कन्यामिव निवेशयन्ति, यथा "माता-पितरौ कन्यां गुणैर्वयसा च संवर्ध्य योग्यभर्त्तरि स्थापयन्ति", एवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्ट्वा महत्याचार्यपदेऽपि स्थापयन्ति, तानेवंभूतान् गुरून् मानयति, योऽभ्युत्थानादिना मानार्हान् - मानयोग्यान्, तपस्वी सन् जितेन्द्रियः सत्यरत इति प्राधान्यख्यापनार्थं विशेषणद्वयं स पूज्य इति ।। ९.३.१३ ।।
३२३
सिं गुरूणं गुणसाय (ग) राणं, सुच्चा ण मेहावि सुहासियाई । चरे मुणी पंचर तिगुत्तो, चउक्कसायावगए स पुज्जो ।।९.३.१४।।
(ति.) तथा - तेषां गुरूणां गुणसागराणां श्रुत्वा । सुभाषितानि - अत्रामुत्रोपकारकाणि । मेधावी मुनिश्चरति । पञ्चरतः - पञ्चसु महाव्रतेषु समितिषु च रतः । त्रिगुप्तः, चतुःकषायापगतः । स पूज्यः ।। ९.३.१४ ।।
(स.) पुनराह - तेसिं-इति-यो मेधावी पण्डित एवंविधः सन् चरति, किं कृत्वा ? गुरूणां तेषां पूर्वोक्तगुणवतां सुभाषितानि श्रुत्वा, किम्भूतानां गुरूणां ? गुणसागराणां गुणानां समुद्राणां किम्भूतो मुनिः ? पञ्चरतः पञ्चमहाव्रतपालने तत्परः पुनः किम्भूतो मुनिः ? त्रिगुप्तः, मनोगुप्ति-वचनगुप्ति-कायगुप्तिसहितः पुनः किम्भूतो मुनिः ? चतुष्कषायापगतः, क्रोध - मान-माया-लोभाख्यकषायचतुष्टयवर्जितः, स पूज्यः. ।।९.३.१४।।
ર
(सु.) तथा-तेसिं गुरूणं' इति, तेषां गुरूणामनन्तरोदितानां, गुणसागराणांगुणसमुद्राणां सम्बन्धीनि श्रुत्वा मेधावी सुभाषितानि - परलोकोपकारकाणि, चरतिआचरति, मुनिः-साधुः, पञ्चरतः पञ्चमहाव्रतसक्तः त्रिगुप्तो - मनोगुप्त्यादिमान्, चतुष्कषायापगत इत्यपगतक्रोधादिकषायो यः स पूज्य इति ।।९.३.१४।।