SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकं-टीकात्रिकयुतम् (ति.) तथैव डहरं वा महल्लकं वा मध्यमं वा । स्त्रियं वा पुमांसं वा नपुंसकं वा प्रव्रजितं वा गृहिणं वा अन्यतीर्थिकं वा । उपलक्षणत्वात् सर्वत्रोभयग्रहणात् तृतीयग्रहणम् । न हीलयति - नावजानाति । न खिंसयति - न निन्दयति, हीलन - खिंसनयोश्च कारणं स्तम्भं क्रोधं च त्यजति यः स पूज्यः ।। ९.३.१२ । । ३२२ (स.) तहेव... इति - किञ्च साधुरेतान् न हीलयति, कान् ? इत्याह- तथैव पूर्ववत्, डहरं वा महल्लकं वा, वाशब्दान्मध्यमं वा, स्त्रियं, पुमांसम् उपलक्षणत्वान्नपुंसकं वा, प्रव्रजितं वा गृहिणं वा, वाशब्दात् तदन्यतीर्थिकं वा न हीलयति, नापि खिंसयति, तत्र सूयया असूयया वा एकवारं दुष्टाभिधानं हीलनं, तदेव वारंवारं खिंसनं, हीलनाखिंसनयोश्च निमित्तभूतं स्तम्भं च मानं च क्रोधं रोषं त्यजति, स पूज्यः. ।।९.३.१२।। (सु.) किञ्च - तहेव 'इति, तथैवेति पूर्ववत्, डहरं वा महल्लकं वा, वाशब्दान्मध्यमं वा, स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा, प्रव्रजितं गृहिणं वा, वाशब्दात् तदन्यतीर्थिकं वा, न हीलयति, नापि खिंसयति, तत्र सूयया असूयया वा, सकृद् दुष्टाभिधानं हीलनं, तदेवासकृत् खिंसनमिति, हीलन - खिंसनयोश्च निमित्तभूतं स्तम्भं च मानं च क्रोधं च, रोषं च त्यजति यः स पूज्यः, निदानत्यागेन तत्त्वतः कार्यत्यागादिति ।।९.३.१२।। जे माणया सयं माणयंति, जत्तेण कन्नं व निवेशयति । ते माणए माणरिहे तवस्सी, जिइंदिए सच्चरए स पुज्जो ।।९.३.१३।। (ति.) किञ्च -ये मानिताः अभ्युत्थानादिभिः । सततं शिष्यान् । मानयन्ति - मा ज्ञानादिभूतीः, नयन्ति-प्रापयन्ति । श्रुतोपदेशस्मरणवारणादिभिः यत्नेन कन्यामिव निवेशयन्ति । यथा मातापितरौ गुणैर्वयसा च संवर्ध्य कन्यां योग्यभर्तरि स्थापयन्ति । एवम् आचार्यः शिष्यं सूत्रार्थविज्ञं कृत्वा महत्याचार्यपदे स्थापयन्ति । तान्-ईदृशान् गुरून् । यो मानयति । अभ्युत्थानादिना मानार्हान् तपस्वी जितेन्द्रियः सत्यरतः, स पूज्यः ।।९.३.१३ ।। (स.) जे इति - किञ्च ये मानिता अभ्युत्थानादिसत्कारैः । सततं निरन्तरं शिष्यान् मानयन्ति श्रुतस्योपदेशं प्रति चोदनादिभिः, तथा यत्नेन कन्यामिव निवेशयन्ति, यथा मातापितरौ कन्यां गुणैर्वयसा च सर्वासु ऋद्धिषु योग्ये भर्तरि स्थापयतः, एवमाचार्या
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy