________________
नवमम् अध्ययनम्
३२१ पुनः-अदीनवृत्तिराहारादीनामभावेऽपि शुद्धवृत्तिः, पुनर्यो नो भावयेदकुशलभावनया परं, 'यथामुकपुरतो भवताहं वर्णनीयः', पुनर्यो न भावितात्मा स्वयमन्यपुरतः स्वगुणवर्णनापरः, पुनः-अकौतुकश्च सदा नटनर्त्तक्यादिषु, स पूज्यः, ।।९.३.१० ।।
(सु.) तथा अलोलुए'इति, अलोलुपः-आहारादिषु अलुब्धः, अकुहकइन्द्रजालादिकुहकरहितः, अमायी-कौटिल्यशून्यः, अपिशुनश्चापि-न छेदभेदकर्ता, अदीनवृत्तिः-आहाराद्यलाभेऽपि शुद्धवृत्तिः, नो भावयेदकुशल-भावनया परं, यथा'अमुकपुरतो भवताऽहं वर्णनीयः', नापि च भावितात्मा स्वयमन्यपुरतः स्वगुणवर्णनापरः अकौतुकश्च सदा नटनर्त्तकादिषु यः, स पूज्य इति ।।९.३.१० ।।
गुणेहिं साहू अगुणेहिंऽसाहू, गिन्हाहि साहू गुण, मुंचऽसाहू | वियाणई अप्पगमप्पएणं, जो रागदोसेहिं समो स पुज्जो ।।९.३.११।।
(ति.) किंच-गुणैः-अनन्तरोक्तैर्विनयाद्यैः साधुः । तद्विपरीतैः अगुणैः असाधुः । ततो गृहाण साधुगुणान्, मुञ्च असाधुगुणान् । वियाणइ'इति प्राकृतत्वादिनन्तस्याप्येवं प्रयोगः, ततश्चैतं पूर्वार्धोक्तमुपदेशं विशेषेण जानाति-ज्ञापयति । आत्मनमात्मना यः। रागद्वेषयोः समः-न रागवान् न द्वेषवान् । स पूज्यः ।।९.३.११।।
(स.) गुणेहिं'इति-किञ्च साधुर्गुणैः पूर्वोक्तैर्गुणैर्विनयादिभिर्युक्तो भवति, तथा असाधुरगुणैः पूर्वोक्तगुणविपरीतैर्भवति, एवं सति च गुणान् साधुगुणान् गृहाण त्वम्, असाधुगुणान् मुञ्चेति शोभन उपदेशः, एवमधिकृत्य विज्ञापयति विविधं ज्ञापयत्यात्मानमात्मना, पुनर्यो रागद्वेषयोः समो न रागवान्, न द्वेषवान्, एवंविधो यः साधुः स पूज्यः . ।।९.३.११।।
(सु.) किञ्च-गुणेहिं...इति, गुणैरनन्तरोदितैर्विनयादिभिर्युक्तः साधुर्भवति, तथा अगुणैरुक्तगुण-विपरीतैरसाधुः, एवं सति "गृहाण साधुगुणान् मुञ्चासाधुगुणांश्च'इति शोभन उपदेशः, एवमधिकृत्य प्राकृतशैल्या विज्ञापयति-विविधं ज्ञापयत्यात्मानमात्मना यस्तथा रागद्वेषयोः समो-न रागवान् न द्वेषवान्निति, स पूज्य इति ।।९.३.११।।
तहेव डहरं च महल्लगं वा, इत्थी पुमं पव्वइयं गिहिं वा ।
नो हीलए नो वि अ खिंसएज्जा, थंभं च कोहं च चए स पुज्जो ।।९.३.१२।। १. विआणिआ'इति, दीपिकायां मूलत्वेन गृहीतः पाठः | चूर्णिपाठः 'वियाणिया', चूर्णिरपि 'जाणिऊणं इति सं.भू. कृदतन्त्वेन विवृता.