SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३२० दशवैकालिकं-टीकात्रिकयुतम् दुष्टमनोभावं जनयन्ति प्राणिनां, एवंभूतान् वचनाभिघातान् 'धर्म' इतिकृत्वा सामायिकपरिणामापन्नो, न त्वशक्त्यादिना, परमाग्रशूरः-दानसंग्रामशूरापेक्षया प्रधानः शूरः जितेन्द्रियः सन् यः सहते, न तु तैर्विकारं उपदर्शयति, स पूज्य इति ।।९.३.८ ।। अवन्नवायं च परम्मुहस्स, पच्चक्खओ पडिणीयं च भासं | ओहारिणिं अप्पियकारणिं च, भासं न भासिज्ज सया स पुज्जो ||९.३.९।। (ति.) तथा अवर्णवादं च । पराङ्मुखस्य-पृष्ठतः परोक्ष इत्यर्थः । प्रत्यक्षतः । प्रत्यनीकाम्-अपकारिणी, चौरस्त्वमित्यादिकां भाषाम् । अवधारिणीम् अप्रियकारिणी च भाषां न भाषेत, स पूज्यः ।।९.३.९।। (स.) पुनराह-अवन्न...इति-योऽवर्णवादमश्लाघावादं पराङ्मुखस्य पृष्ठतः प्रत्यक्षतश्च नो भाषेत, सदा कदाचिदपि नैवं ब्रूयात्, तथा प्रत्यनीकामपकारिणी 'त्वं चौर' इत्यादिरूपां, तथावधारिणीम्, अशोभन एवायम्'इत्यादिरूपां, पुनरप्रीतिकारिणी च श्रोतुम॒तनिवेदनादिरूपां च भाषां वाचं न भाषेत, स यतिः पूज्यः. ।।९.३.९।। (सु.) तथा अवण्ण...इति, अवर्णवादं-अश्लाघावादं च पराङ्मुखस्य पृष्ठत इत्यर्थः, प्रत्यक्षतश्च-प्रत्यक्षस्य च प्रत्यनीकां अपकारिणी चौरस्त्वम् इत्यादिरूपां भाषां तथा अवधारिणी-'अशोभन एवायम्'इत्यादिरूपां, अप्रीतिकारिणीं च-श्रोतुर्मृतनिवेदनादिरूपां भाषां-वाचं न भाषेत सदा यः कदाचिदपि नैव ब्रूयात्, स पूज्य इति ।।९.३.९।। अलोलुए अकुक्कुहए अमाई, अपिसुणे आवि अदीणवित्ती । नो भावए नो वि अ भाविअप्पा, अकोउहल्ले य सया स पुज्जो ।।९.३.१०।। (ति.) अलोलुपः-आहाराद्यलुब्धः । अकुहकः-अव्यंसकः, इन्द्रजालादिमायारहितः। अमायी-कौटिल्यशून्यः । अपिशुनः-अदुर्जनः । अदीनवृत्तिः-आहाराद्यलाभेऽपि न कुमुखः । 'अमुकपुरस्तोऽहं भवता वर्णनीय' इति परं न भावयेत् । नापि च भावितात्मास्वयमन्यपुरतः स्वगुणवर्णनेन भावित आत्मा येन स तथा । अकौतुकश्च-नटनर्तकादिषु | सदा यः, स पूज्यः ।।९.३.१०।। (स.) अलोलुए इति-तथा यः साधुरलोलुप आहारादिष्वलुब्धः, पुनः-अकुहक इन्द्रजालादिकुहकरहितः, पुनः-अमायी कौटिल्यशून्यः, पुनः-अपिशुनो न छेदनभेदनकर्ता,
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy