________________
नवमम् अध्ययनम्
३१९
(स.) पुनरेतदेव स्पष्टयति - मुहुत्त... इति - लोहमयाः कण्टका मुहूर्तदुःखा मुहूर्तमल्पकालं यावद् दुःखदा भवन्ति, वेधकाल एव प्रायो दुःखदानात्, तेऽपि कण्टकाः कायात् सूद्धराः सुखेनैवोद्धियन्ते, व्रणपरिकर्म च क्रियते परं वचनेन यानि दुरुक्तानि तानि दुरुद्धराणि भवन्ति दुःखेनैवोद्द्रियन्ते, मनोरूपलक्षवेधनात्, किम्भूतानि वचनदुरुक्तानि ? वैरानुबन्धीनि तथा श्रवणप्रद्वेषादिना इह लोके परलोके च वैरभावजनकानि, पुनः किम्भूतानि ? अत एव महाभयानि कुगतिपातभयहेतुभूतानि . ।।९.३.७ ।।
(सु.) एतदेव स्पष्टयति - मुहुत्त... इति, मुहूर्त्तदुःखा - अल्पकालदुःखा भवन्ति कण्टका अयोमयाः, वेधकाल एव प्रायो दुःखभावात्, तेऽपि ततः कायात् सूद्धुराः सुखेनैवोद्भियन्ते व्रणपरिकर्म च क्रियते, वाग्दुरुक्तानि पुनर्दुरुधुराणि - दुःखेनैवोद्द्रियन्ते मनोलक्ष्यवेधनात्, वैरानुबन्धीनि-तथाश्रवण- प्रद्वेषादिनेह परत्र च वैरमनुबध्नन्ति, अत एव महाभयानि, कुगतिपातादिभयहेतुत्वादिति ।।९.३.७।।
समावयंता वयणाभिघाया, कन्नंगया दुम्मणियं जणंति ।
धम्मु (मो) त्ति किच्चा परमग्ग सूरे, जियंदिए जो सहई स पुज्जो ।।९.३.८ । ।
(ति.) अपि च - समापतन्तः समं - समकालम्, आ-सामास्त्येन अभिमुखं, पतन्तः । वचनाभिघाताः-खरादिवचनप्रहाराः । कर्णंगताः सन्तो दौर्मनस्यं जनयन्ति । धर्म इति कृत्वा । परमाग्रः शूरः- दानशूर - समरशूरापेक्षया प्रधानशूरः । जितेन्द्रियः सन् । यः सहते न तु तैर्विकारमादर्शयति । स पूज्यः ।। ९.३.८ ।।
(स.) समावयंता ' इति - पुनः किञ्च वचनाभिघाताः खरादिवचनप्रहाराः कर्णगताः सन्तः प्रायो दौर्मनस्यं दुष्टमनोभावं प्राणिनां जनयन्ति, अनादिभवाभ्यासात्, किं कुर्वन्तो वचनाभिघाताः ? समापतन्त एकीभावेनाभिमुखं पतन्तः अथ च यो यतिस्तान् सहते, न तु तैर्विकारमुपदर्शयेत्, किं कृत्वा सहते ? धर्म इति कृत्वा सामायिकपरिणामं समापन्नः सन्, न त्वशक्त्यादिना, किम्भूतो यतिः ? परमाग्रशूरः प्रधानशूरः, पुनर्जितेन्द्रियः, पूज्य इति ।।९.३.८ ।।
(सु.) किञ्च - समावयंता' इति समापतन्त - एकीभावेनाभिमुखं पतन्तः क ? इत्याहवचनाभिघाताः-खरादिवचनप्रहाराः, कर्णगताः सन्तः प्रायोऽनादिभवाभ्यासाद् दौर्मनस्यं