________________
३१८
दशवैकालिकं-टीकात्रिकयुतम् यापयति सन्तोषप्राधान्यरतः-सन्तोष एव प्राधान्यभावे रतः-सक्तः, स पूज्य इति ।।९.३.५।।
सक्का सहिउं आसाइं कंटया, अओमया उच्छहया नरेणं । अणासए जो उ सहिज्ज कंटए, वईमए कन्नसरे स पुज्जो ।।९.३.६।।
(ति.) इन्द्रियसमाधिद्वारेण पूज्यतामाह-शक्याः सोदुम् । अयोमयाः कण्टकाः । उत्साहता नरेण । आशया-द्रव्यलिप्सया । यस्त्वनाशया-फलाप्रत्याशया । सहेत कण्टकान्। वाङ्मयान्-कर्कशवागात्मकान् । कर्णशरान्-कर्णगामिनः । स पूज्यः ।।९.३.६ ।।।
(स.) अथेन्द्रियसमाधिद्वारेणसाधोः पूज्यतामाह-सक्का...इति-नरेण कण्टका इदं मे भविष्यतीत्याशया सोढुं शक्याः, किम्भूता कण्टकाः ? अयोमया लोहमयाः, किम्भूतेन नरेण ? उत्साहवता, अर्थोद्यमवता, तथा च कुर्वन्ति केचिल्लोहमयकण्टकास्तरणशयनमप्यर्थवाञ्छया, परं न तु वचनकण्टकाः सोढुं शक्याः, ततो निरीहः सन् कर्णसरान् वाक्कण्टकान् सहेत, स पूज्यः. ।।९.३.६ ।।
(सु.) इन्द्रियसमाधिद्वारेण पूज्यतामाह-सक्का...इति, शक्याः सोढुमाशयेतीदं मे भविष्यतीति प्रत्याशया, के ? इत्याह-कण्टका अयोमया-लोहात्मका, उत्सहता नरेण-अर्थोद्यमिनेत्यर्थः?, तथा च कुर्वन्ति केचिदयोमयकण्टका-ऽऽस्तरणशयनमप्यर्थलिप्सवः, न तु वाक्कण्टकाः शक्या इति, एवं व्यवस्थिते अनाशया-फलाप्रत्याशया निरीहः सन्, यस्तु सहेत कण्टकान् वाङ्मयान्-खरादिवागात्मकान् कर्णसरान्कर्णगामिनः, स पूज्य इति ।।९.३.६ ।।
मुहुत्तदुक्खा हु भवंति कंटया, अओमया ते वि तओ सुदुद्धरा । वायादुरुत्ताणि दुरुद्धराणि, वेराणुबंधीणि महाभयाणि ।।९.३.७।।
(ति.) एतदेव स्पष्टयति-मुहूर्तदुःखाः-अल्पकालदुःखाः । भवन्ति । कण्टकाः अयोमयास्तेऽपि । ततः-कायात् । सूद्धराः-सुखेनोळ्यिन्ते व्रणकर्म च क्रियते । वाग्दुरुक्तानि पुनः दुरुद्धराणि-दुःखेनोद्धियन्ते मनोलक्षवेधनात् । श्रवणतः प्रद्वेषादिना, इह परत्र च वैरानुबन्धीनि । अत एव महाभयानि-कुगतिपातादिभयहेतुत्वात् ।।९.३.७।।
१. 'सहेलं'