________________
नवमम् अध्ययनम्
देहपालनाय, अन्यथा समुदानं चोचितभिक्षालब्धं च नित्यं सर्वकालं न तूञ्छमप्येकत्रैव बहु लब्धं कादाचित्कं वा, एवम्भूतमपि विभागतोऽलब्ध्वाऽनासाद्य न परिदेवयेन्न खेदं यायात्, 'यथाहं मन्दभाग्यः अथवा नायं देशः शोभन' इति, विभागतश्च लब्ध्वा प्राप्योचितं न विकत्थते न श्लाघां करोति, 'यथाहं महापुण्यवान्, अथवायं देशः शोभनः', यो यतिरेवं पूर्वोक्तं कुर्यात् स पूज्यः. ।।९.३.४।।
३१७
(सु.) किञ्च – अण्णाय...इति, अज्ञातोञ्छं- परिचयाकरणेनाज्ञातः सन् भावोञ्छं गृहस्थोद्धरितादि चरति, अटित्वाऽऽनीतं भुङ्क्ते, न तु ज्ञातस्तद्बहुमतमिति, एतदपि विशुद्धं - उद्गमादि-दोषरहितं न तद्विपरीतं एतदपि यापनार्थं - संयमभरोद्वाहिदेहपालनाय, नान्यथा, समुदानं च उचितभिक्षालब्धं च नित्यं सर्वकालं न तूञ्छमप्येकत्रैव बहुलब्धं कादाचित्कं वा एवंभूतमपि विभागतः, अलब्ध्वा - अनासाद्य न परिदेवयेत्-न खेदं यायात्, यथा ‘मन्दभाग्योऽहं अशोभनो वा अयं देश' इत्येवं, विभागतश्च लब्ध्वा प्राप्योचितं न विकत्थते - न श्लाघां करोति 'सपुण्योऽहं शोभनो वा अयं देश' इत्येवं स पूज्य इति ।।९.३.४।।
संथार-सिज्जा-ऽऽसण-भत्त-पाणे, अप्पिच्छया अइलाभे वि संते ।
जो एवमप्पाणभितोसइज्जा, संतोसपाहन्नरए स पुज्जो ।।९.३.५।।
(ति.) किञ्च - संस्तारक - शय्या - ऽऽसन - भक्त - पानेषु लाभे सति । अल्पेच्छताअमूर्च्छया अधिकाग्रहणम् । य एवमात्मानमभितोषयति । सन्तोषप्राधान्येन रतः, स पूज्यः ।।९.३.५।।
(स.) संथार... इति - किञ्च यस्य साधोः संस्तारके शय्यायामासने, भक्ते पाने चाल्पेच्छता अमूर्च्छया कृत्वा परिभोगादधिकस्य परिहारो वा भवेत्, क्व सति ? सति संस्तारकादीनां गृहस्थेभ्यः सकाशादतिलाभे सत्यपि यः साधुरेवमात्मानमभितोषयति, येन वा तेन वात्मानं यापयति, किम्भूतो यतिः ? सन्तोषप्राधान्यरतः, सन्तोष एव प्रधानभावे रत आसक्तः, स साधः पूज्यः ।।९.३.५।।
(सु.) किञ्च - संथार... इति, संस्तारक - शय्या - Ssसन - भक्त - पानानि प्रतीतानि, एतेष्वल्पेच्छता-अमूर्च्छया परिभोगः, अतिरिक्तपरिहरणं च अतिलाभेऽपि सति संस्तारकादीनां गृहस्थेभ्यः सकाशात्, य एवमात्मानमभितोषयति येन वा तेन वा १. 'सेज्जा' इति मुद्रितः पाठभेदः ।