________________
दशवैकालिकं- टीकात्रिकयुतम्
(ति.) किंच-रात्निकेषु - ज्ञानादिरत्नैरभ्यर्चितेषु । विनयं प्रयुङ्क्ते । डहरा अपि ये पर्यायज्येष्ठाः-चिरप्रव्रजिताः तेषु वा । तथा एतान् गुणाधिकान् प्रति नीचत्वे यो वर्तते । सत्यवादी–अविरुद्धवक्ता । अवपातवान्-नमनशीलः । वाक्यकरः- गुर्वादेशकरः । यः स पूज्यः ।। ९.३.३ ।।
३१६
(स.) रायणि...इति - पुनः किञ्च यः साधू रत्नाधिकेषु भावरत्नैर्ज्ञानादिभिरधिकेषु विनयं पूर्वोक्तं प्रयुङ्क्ते करोति, तथा डहरा अपि च ये वयसा श्रुतेन च ज्येष्ठाः, पुनर्ये पर्यायज्येष्ठाश्चिरप्रव्रजिताः, तेषु च यो विनयं प्रयुङ्क्ते, एवं यो नीचत्वे गुणाधिकान् प्रति नीचभावे वर्तते, पुनर्योऽपि सत्यवाद्यविरुद्धवक्ता, तथावपातवान् वन्दनाशीलो निकटवर्ती वा, पुनर्यो वाक्यकरो गुरोर्निर्देशकरणशीलः, स पूज्यः. ।।९.३.३।।
(सु.) किञ्च - राइणिए... इति, रत्नाधिकेषु - ज्ञानादिभावरत्नाभ्यधिकेषु, विनयं - यथोचितं प्रयुङ्क्ते करोति, तथा डहरा अपि च ये वयः - श्रुताभ्यां पर्यायज्येष्ठाश्चिरप्रव्रजिताः तेषु विनयं प्रयुङ्क्ते, एवं नीचत्वे गुणाधिकान् प्रति नीचभावे वर्त्तते, सत्यवादी–अविरुद्धवक्ता तथा अवपातवान्-वन्दनशीलो, निकटवर्त्ती वा एवं च यो वाक्यकरो-गुरुनिर्देशकरणशीलः, स पूज्य इति ।।९.३.३।।
·
अन्नायउंछं चरई विसुद्धं, जवणट्टया समुयाणं तं निच्चं । अलद्धयं नो परिदेवइज्जा, लधुं न विकत्थई स पुज्जो ।।९.३.४।।
(ति.) किंच—यथा क्षेत्रेषु लूनेषु पतितकणचुण्टनम् उञ्छम् उच्यते । तथाऽज्ञातेषु प्रान्तकुलेषु अल्पाल्पतद्दत्तभिक्षाग्रहणम् अज्ञातोञ्छम् । तत् चरति-भुङ्क्ते यः । तदपि विशुद्धम्-उद्गमादिदोषरहितम् । यापनार्थम्-वपुःपालनार्थम् । समुदानम्भैक्षम् । नित्यम् । तदपि अलब्ध्वा - अनासाद्य । न परिदेवयेत् न खेदं यायात्, यथा मन्दभाग्योऽहं, अशोभनो वायं देश इति । लब्ध्वा च । न विकथ्यते - न श्लाघते, सुपुण्योऽहं, शोभनो वायं देश इति, स पूज्यः ।।९.३.४।।
(स.) अन्नाय...इति-पुनः किञ्च, साधुरज्ञातोञ्छं परिचयस्याकरणेनाज्ञातः सन् भावोञ्छं गृहस्थोद्धरितादि चरति, अटित्वानीतं भुङ्क्ते, न तु ज्ञातस्तद्बहुमतमिति, एतदपि विशुद्धम्-उद्गमादिदोषरहितं, न तद्विपरीतम्, एतदपि यापनार्थं संयमभारोद्वाहि१. अन्यत्र मुद्रितः पाठभेदः' 'च' इति, विवृतश्चापि तथैव, न च विवृतः (ति) टीकायां स्वीकृत श्च 'तु' इति पाठो मूलपाठत्वेन ।