________________
नवमम् अध्ययनम्
प्रतिजागृयात्, तत्-तत् कृत्यसम्पादनेनोपचरेत् । आह-यथाऽऽहिताग्निः’इत्यादिना प्रागिदमुक्तमेव, सत्यं, किं तु तदाचार्यमेवाङ्गीकृत्य, इदं तु रत्नाधिकमप्यधिकृत्योच्यते, वक्ष्यति च - "रायणिएसु विणयं [ ९.३.३]इत्यादि" त्यादि, प्रतिजागरणोपायमाहअवलोकितं-निरीक्षितं, इङ्गितमेव च - अन्यथावृत्तिलक्षणं ज्ञात्वा - विज्ञायाचार्यीयं यःसाधुः छन्दः - अभिप्रायमाराधयति । यथा शीते पतति प्रावरणावलोकने तदानयने, इङ्गिते वा निष्ठीवनादिलक्षणे शुण्ठ्याद्यानयनेन स पूज्यः स इत्थंभूतः साधुः पूजार्हः- कल्याणभागिति ।।९.३.१।।
आयारमट्ठा विणयं पउंजे, सुस्सूसमाणो परिगिज्झ वक्कं । जहोवइद्वं अभिकंखमाणो, गुरुं तु नासाययई स पुज्जो ।।९.३.२।।
३१५
(ति.) प्रक्रान्तमेवाह - आचारार्थम् - ज्ञानाचारनिमित्तम् । विनयं प्रयुङ्क्ते । शुश्रूषमाणः-‘किमयं वक्ष्यति'इति श्रोतुमिच्छन् । तदुक्तं वाक्यं परिगृह्य । यथोपदिष्टम् अभिकाङ्क्षन्-अनेकार्थत्वात् कर्तुमिच्छन् । यो गुरुं नाशातयति - न हीलयति । स पूज्यः ।।९.३.२।।
(स.) पुनः प्रक्रान्ताधिकार एवाह - आयार... इति यः साधुराचारार्थं ज्ञानादीनामाचाराणां निमित्तं विनयं पूर्वोक्तं प्रयुङ्क्ते करोति, किं कुर्वाणः ? शुश्रूषमाणः श्रोतुमिच्छन्, किमयं गुरुर्वक्ष्यति एवं ततस्तेन गुरुणोक्ते सति वाक्यमाचार्यादिकथितं परिगृह्य, ततो यथोपदिष्टं, यथा गुरुणोक्तं तथाभिकाङ्क्षन् मायारहितः श्रद्धया कर्तुमिच्छन् सन् विनयं करोति, परं ततोऽन्यथाकरणेन गुरुं नाशातयति न हीलयति, स पूज्यः ।।९.३.२ ।।
(सु.) प्रक्रन्ताधिकार एवाह - आयार... इति, आचारार्थं - ज्ञानाद्याचारनिमित्तं, विनयं - उक्तलक्षणं प्रयुङ्क्ते-करोति यः सुश्रूषन् श्रोतुमिच्छन्, किमयं वक्ष्यतीत्येवं, तदनु तेनोक्ते सति परिगृह्य वाक्यमाचार्थीयं ततश्च यथोपदिष्टं यथोक्तमेवाभिकाङ्क्षन्, मायारहितः श्रद्ध्या कर्त्तुमिच्छन् सन् विनयं प्रयुङ्क्ते, अतोऽन्यथाकरणेन गुरुं तु इति, आचार्यमेव नाशातयति - न हीलयति यः स पूज्य इति ।।९.३.२।।
,
रायणिएसु विणयं पउंजे, डहरा वि य जे परियायजिट्ठा । नीयत्तणे वट्टइ सच्चवाई, उवायवं वक्ककरे स पुज्जो ।।९.३.३।।