________________
।। विनयसमाध्यध्ययने तृतीयोद्देशकः ।।
आयरियमग्गिमिवाहियग्गी, सुस्सूसमाणो पडिजागरिज्जा । आलोइय इंगियमेव नच्चा, जो छंदमाराहयई स पुज्जो ।।९.३.१।।
( ति . ) इह च विनीतः पूज्य इति दर्शयन्नाह - यथा अग्निम् । आहिताग्निःब्राह्मणः । शुश्रूषमाणः-इन्धनादिक्षेपेण । प्रतिजागर्ति-विध्यायन्तं रक्षति । एवं साधुः । आचार्यं शुश्रूषमाणः- सम्यक् सेवमानः । प्रतिजागृयात्-तत्कृत्यसम्पादनेनोपचरेत् । आह परः- प्रागप्येतदुक्तं, किं पुनरिदम् ?
सत्यम्, प्रागाचार्यमेवाश्रित्योक्तम् । इह तु रत्नाधिकमप्यधिकृत्योच्यते । वक्ष्यति च । "रायणीएसु विणयं पउंजे" [दशवै. ९.३.३]
प्रतिजागरणं चैवम्-आलोकितम् - निरीक्षितम् । इङ्गितम् - चेष्टितम् । आचार्यीयं ज्ञात्वा । यश्छन्दम्-अभिप्रायम् । आराधयति-शीते पतति प्रावरणालोकने तदानयति । इङ्गिते निष्ठीवनादौ शुण्ठ्याद्यानयति । स पूज्यः ।।९.३.१।।
(स.) आयरि' इति - अथ तृतीय आरभ्यते, इह च विनीतः पूज्यो भवेदिति दर्शयन्नाहयः साधुराचार्यं सूत्रार्थप्रदं तत्स्थानीयं चान्यं ज्येष्ठार्यं रत्नाधिकं वा प्रतिजागृयात्, तत्तत्कार्यंसंपादनेनोपचरेत् कः कामिव ? आहिताग्निर्ब्राह्मणोऽग्निमिव, किं कुर्वाणः साधुः आहिताग्निर्ब्राह्मणश्च ? शुश्रूषमाणः सम्यक्सेवमानः प्रतिजागरमाणश्च, उपायमाह-पुनर्यः साधुराचार्यादीनामवलोकितं वीक्षितमिङ्गितमेव चान्यथावृत्ति - लक्षणं ज्ञात्वा छन्दोऽभिप्रायमाचार्यादीनां विज्ञायाराधयति कथमाराधयेत् ? - इत्याह- शीते पतति सति प्रावरणावलोकने तस्यानयनेन तथेङ्गिते च निष्ठीवनादिलक्षणे जाते सति शुण्ठ्यादीनामानयनेनैवं कुर्यात्, स इत्थम्भूतः साधुः पूज्यः पूजार्हः कल्याणभागिति. ।।९.३.१ ।।
·
(सु.) साम्प्रतं तृतीय [ उद्देशकः] आरभ्यते, इह च विनीतः पूज्य इत्युपदर्शयन्नाहआयरियं...इति, आचार्यं - सूत्रार्थप्रदं तत्स्थानीयं वाऽन्यं ज्येष्ठार्यं किम् ? - इत्याहअग्निमिव-तेजस्कायमिव, आहिताग्निः- ब्राह्मणः सुश्रूषयन् - सम्यक् सेवमानः,
१. 'कं इव - इति साधुः पाठः ।
!