________________
३२७
नवमम् अध्ययनम्
चउविहा खलु विणयसमाही हवइ । तं जहा अणुसासिज्जंतो सुस्सूसइ, (१) सम्मं संपडिवज्जइ (२) वेयमाराहइ (३) न य भवइ अत्तसंपग्गहिए (४) चउत्थं पयं भवइ । सूत्रम्-९.४.२।।
(ति) विनयसमाधि अभिधित्सुराह चतुर्विधः खलु विनयसमाधिर्भवति । तद्यथा । अनुशास्यमानः शुश्रूषते-अर्थितया श्रोतुमिच्छति । इच्छातः सम्यग् प्रतिपद्यते-सम्यग्अविपरीतमनुशासनम्, यथार्थमनुबुध्यते, तच्च सम्यगवबुध्य । वेदमाराधयति-वेद्यते अनेनेति वेदः-श्रुतज्ञानं तद्यथोक्तानुष्ठानेन सफलीकरोति । न च भवत्यात्मसम्प्रगृहीतःआत्मा सम्यक् प्रकर्षेण विनीतोऽहं, सुसाधुरहमित्येवं गृहीतो येन स तथा आत्मोत्कर्षी, न चैवंभूतः, स भवति यथोक्तानुष्ठायी। किं तर्हि अनात्मोत्कर्येव श्रुतोक्तानुष्ठाता भवतीत्यभिप्रायः । एतदेव सूत्रक्रमप्रामाण्यात् चतुर्थं पदं भवति ।।९.४.१ सूत्रम्।।
भवइ य इत्थ सिलोगो - पेहेइ हियाणुसासणं, सुस्सूसई तं च पुणो अहिट्ठिए । न य माणमएण मज्जई, विणयसमाही आययट्ठिए ।।९.४.२।।
(ति.) भवति चात्र श्लोकः-प्रार्थयते हितानुशासनम्-आचार्यादिभ्यः सदुपदेशम्। शुश्रूषते-अनेकार्थत्वात् तदवबुध्यते । तच्चावबुद्धं सत् पुनरधितिष्ठति-विनाकरोति । तच्च कुर्वन् न । मानमदेन-मानगर्वेण । माद्यति । विनयसमाधौ-विनयसमाधिविषये। आयतार्थी-मोक्षार्थी ।। उक्तो विनयसमाधिः ।।९.४.२।।
(स.) अथ विनयसमाधिं कथयितुं वाञ्छन्नाह-चउव्विहा...इति-चतुर्विधः खलु विनयसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, अनुशास्यमानस्तत्र तत्र चोद्यमानः शुश्रूषते, तदनुशासनमर्थितया श्रोतुमिच्छति, इच्छाप्रवृत्तितः सम्यक्सम्प्रतिपद्यते, सम्यगविपरीतमनुशासनं यथाविषयमवबुद्ध्यते, स चैवं विशिष्टप्रवृत्तेरेव वेदमाराधयति, वेद्यतेऽनेनेति वेदः श्रुतज्ञानं, तद् यथोक्तानुष्ठान-तत्परतया सफलीकरोति, अत एव विशुद्धप्रवृत्तेर्न च भवत्यात्मसम्प्रगृहीतः, आत्मैव सम्प्रगृहीतः सम्यक्प्रकर्षण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना, तथानात्मोत्कर्ष-प्रधानत्वाद् विनयादेन चैवम्भूतो भवतीत्यभिप्रायः, चतुर्थं पदं भवति, तदेव सूत्रक्रमप्रामाण्या-दुत्तरोत्तरगुणापेक्षया चतुर्थमिति,
भवति चात्र श्लोकः, अत्रेति विनयसमाधौ, श्लोकश्छन्दोविशेषः स चायं- 'पेहेइ'