________________
नवमम् अध्ययनम्
३११
(सु.) एवं च कृतान्यप्यमूनि न शोभनानि, अत आह-कालं...इति, कालंशरदादिलक्षणं, छन्दस्तदिच्छारूपं, उपचारं-आराधनाप्रकारं, चशब्दाद् देशादिपरिग्रहः, एतत् प्रत्युपेक्ष्य-ज्ञात्वा हेतुभिः-यथानुरूपैः कारणैः, किम् ?-इत्याह-तेन तेनोपायेनगृहस्थाऽऽवर्जनादिना, तत् तत् पित्तहरादिरूपमशनादि सम्प्रतिपादयेत्, यथा कालेऽपि शरदादौ पित्तहरादिभोजनं, प्रवात-निवातादिरूपा शय्या, इच्छानुलोमं वा यद् यस्य हितं रोचते च आराधनाप्रकारोऽनुलोमं भाषणं ग्रन्थाभ्यास-वैयावृत्त्यकरणादि, देशे(? देशः) अनूपदेशाधुचितं, निष्ठीवनादिभिर्हेतुभिः श्लेष्माद्याधिक्यं विज्ञाय तदुचितं सम्पादयेदिति ।।९.२.२० ।।
विवत्ती अविणीयस्य, संपत्ती विणीयस्स य ।
जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छई ।।९.२.२१।। ' (ति.) किञ्च-विपत्तिरविनीतस्य-ज्ञानादिगुणानाम् । सम्पत्तिर्विनीतस्यज्ञानादिगुणानामेव। यस्यैतदुभयतः-अविनय-विनयाभ्यां सकाशात् ज्ञानाद्यप्राप्ति-प्राप्ती स्यातामिति । ज्ञातम्-भवति । स शिक्षाम्-ग्रहणासेवनारूपाम् । अभिगच्छति-प्राप्नोति ||९.२.२१।।
(स.) विवत्ती'इति-पुनः प्राह-अविनीतस्य शिष्यस्य ज्ञानादिगुणानां विपत्तिर्भवति, विनीतस्य च शिष्यस्य ज्ञानादिगुणानां सम्प्राप्तिर्भवति, यस्यैतद् ज्ञानादि-प्राप्त्यप्राप्तिरूपं ज्ञानाद्यधिगच्छति प्राप्नोति, भावत उपादेयं ज्ञानादि-इति ।।९.२.२१।।
(सु.) किञ्च-विवत्ती...इति, विपत्तिरविनीतस्य ज्ञानादिगुणानां, संप्राप्तिर्विनीतस्य च ज्ञानादि-गुणानामेव, यस्यैतत्-ज्ञानादिप्राप्त्यप्राप्तिद्वयं, उभयत-उभयाभ्यां विनयाऽविनयाभ्यां सकाशाद् भवतीत्येवं ज्ञातं-उपादेयं चैतदिति भवति, शिक्षाग्रहणासेवनारूपामसावित्थंभूतो-ऽभिगच्छति-प्राप्नोति, भावत उपादेयपरिज्ञानादिति ||९.२.२१।।
जे यावि चंडे मइ-इढिगारवे, पिसुणे नरे साहसहीणपेसणे | अदिट्ठधम्मे विणए अकोविए, असंविभागी न हु तस्स मुक्खो ।।९.२.२२ ।। (ति.) एतदेव दृढयन्नविनीतफलमाह-यश्चापि-प्रव्रजितोऽपि । रोषणः ।