________________
३१०
दशवैकालिकं - टीकात्रिकयुतम्
दुर्गौरिव गलिबलीवर्दवत् प्रतोदेनारादण्डलक्षणेन चोदितः प्रेरितो विद्धः सन् वहति क्वापि नयति रथम्, एवं दुर्गौरिव दुर्बुद्धिः शिष्यः कृत्यानामाचार्यादीनां कृत्यानि वा तदभिरुचितकार्याणि उक्त उक्तः पुनः पुनरभिहित इत्यर्थः, प्रकरोति निष्पादयति प्रयुङ्क्ते चेति. ।।९.२.१९ । ।
(सु.) एतच्च सर्वं बुद्धिमान् स्वयमेव करोति, तद् अन्यस्तु कथम् ?-इत्याहदुग्गओ वा...इति, दुर्गौरिव - गलिबलीवर्द्दवत्, प्रतोदेन - आरादण्डलक्षणेन चोदितोविद्धः सन् वहति-नयति क्वापि, रथं प्रतीतं, एव दुग्र्गौरिव दुर्बुद्धिः - अहितावहबुद्धिः शिष्यः, कृत्यानां आचार्यादीनां कृत्यानि वा तदभिरुचितकार्याणि, उक्त उक्तः-पुनः पुनरभिहित इत्यर्थः, प्रकरोति - निष्पादयति प्रयुङ्क्ते चेति ।।९.२.१९।।
कालं छंदोवयारं च, पडिलेहित्ता ण हेउहिं ।
तेहिं तेहिं उवाएहिं, तं तं संपडिवायए ।। ९.२.२० ।।
(ति) एवं कृतान्यपि न शोभनानि, अतः - कालम् - शरदादिकम् । छन्दम्इच्छारूपम् । उपचारम् - आराधनाप्रकारम् । चकारात् - अनूपदेशादिकम् । प्रत्युपेक्ष्यज्ञात्वा । हेतुभिः कारणैः, श्लेष्मादिभिः । तैस्तैरुपायैः - गृहस्थावर्जनया । तत्तत्श्लेष्मादिहरमशनादि । सम्प्रतिपादयेत् ।।९.२.२० ।।
(स.) ऐवं च कृतान्यप्यमूनि न शोभनानीत्यत आह- कालं... इति-साधुस्तत्तत्पित्तहरादिरूपमशनादि गुरोः सम्प्रतिपादयेदुपानयेत्, केन केन ? तेन तेनोपायेन गृहस्थानामा वर्जनादिना किं कृत्वा ? कालं शरदादिलक्षणं, छन्दस्तस्येच्छारूपमुपचारमाराधनाप्रकारम्, चशब्दाद् देशादिकम् एतत्प्रत्युपेक्ष्य ज्ञात्वा कैः ? हेतुभिर्यथानुरूपैः कारणैः, तथा काले शरदादौ पित्तहरादि भोजनं, शय्या प्रवातनिवातादिरूपा, इच्छानुलोमं वा यद् यस्य हितं रोचते चाराधनाप्रकारोऽनुलोमभाषण-ग्रन्थाभ्यास- वैयावृत्त्यकरणादिः, देशेऽनूपदेशादीनामुचितं निष्ठीवनादिभिर्हेतुभिः श्लेष्माद्याधिक्यं विज्ञाय तदुचितं सम्पादयेदिति. ।।९.२.२० ।।
१. इयं क्षेपकगाथा दीपिकासंवलितमूलपुस्तक उपलब्धा [दृश्यतां उत्तराध्ययन- १.२१] आलवंते लवंते वा, निसिज्जाइ पडिस्सुणे । मुत्तूण आसणं धीरो, सुस्सूसाहए पडिस्सुणे ।। ।।
(स) आलवन्त इति-पुनराचार्यः शिष्यं प्रत्येकवारं वक्ति, अथवा पुनः पुनर्वक्ति, तदा स शिष्य आत्मन आसने स्थित एव वचनं श्रुत्वा नोत्तरं ददाति, किं करोति ? आत्मन आसनं मुक्त्वा स शिष्यो विनयेन द्वौ हस्तौ सम्मील्योत्तरं ददाति, कथम्भूतः सः ? धीरो बुद्धिमान्.