________________
नवमम् अध्ययनम्
३०९ तस्मिन्नुपविष्टे तदनुज्ञातः सेवेत, नान्यथा, तथा नीचं च-सम्यगवनतोत्तमाङ्गः सन्, पादावाचार्यसत्कौ वन्देत, नावज्ञया तथा क्वचित् प्रश्नादौ नीचं-नम्रकायं कुर्याच्च सम्पादयेच्चाञ्जलिं, न तु स्थाणुवत् स्तब्ध एवेति ।।९.२.१७।।
संघट्टइत्ता काएणं, तहा उवहिणामवि । खमेह अवराहं मे, वइज्ज न पुण(णो) त्ति य ।।९.२.१८।।
(ति.) एवं कायविनयमुक्त्वा कायवागविनयमाह-कायेन-हस्तपादादिना । तथा। उपधिना-कल्पादिना । आचार्यम् उपविष्टं सङ्घट्य-स्पृष्ट्वा । 'मिथ्यादुःकृत' दानपुरःसरमभिवन्द्य, क्षमस्व मम मन्दभाग्यस्य । अपराद्धं, न पुनः एतत् कारिष्यामीति वदेत् ।।९.२.१८ ।।
(स.) अथ कायविनयं कथयित्वा, वचनविनयमाह-संघट्ट...इति-साधुर्गुरुं प्रति मिथ्यादुष्कृतपुरःसरमभिवन्द्यैवं वदेत्, न पुनरिति, न चाहमेवं भूयः करिष्यामीति. एवं किमित्याह-हे गुरो ! मम मन्दभाग्यस्यापराधं दोषं क्षमस्व सहस्व ? किं कृत्वा ? कायेन देहेन कथञ्चित तथाविधे प्रदेश उपविष्टं गुरुं सङ्घट्ट्य स्पृष्ट्वा, पुनरुपाधिनापि कल्पादिनापि कथञ्चित् सङ्घट्य. ।।९.२.१८ ।।
(सु.) एवं कायविनयमभिधाय वाग्विनयमाह-संघट्टइ..इति, संघट्ट्य-स्पृष्ट्वा, कायेन-देहेन कथञ्चित् तथाविधप्रदेशोपविष्टमाचार्य, तथोपधिनापि-कल्पादिना कथञ्चित् संघट्ट्य मिथ्यादुष्कृतपुरस्सरमभिवन्द्य क्षमस्व-सहस्वापराधं-दोषं, मे मन्दभाग्यस्यैवं वदेत्-ब्रूयात्, न पुनरिति न चाहमेनं भूयः करिष्यामीति ।।९.२.१८ ।।
दुग्गओ वा पओएणं, चोइओ वहई रहं । एवं दुबुद्धि किच्चाणं, वुत्तो वुत्तो पकुव्वई ।।९.२.१९।।
(ति.) एतच्च विज्ञः स्वयमेव करोति । अज्ञस्तु कथमित्याह-दुर्गौरिवगलिबलीवर्दवत । प्रतोदेन-तोत्रेण | नोदितः विद्धः सन् । वहति । रथम-शकटम् | एवं दुर्बुद्धि-शिष्यः । कृत्यानाम्-आचार्याणां कार्याणि । उक्त उक्तः करोति ।।९.२.१९ ।।
(स.) एवं सर्वं बुद्धिमान् स्वयमेव करोति, तदन्य स्तु कथम् ?-इत्याह-दुग्ग...इति