________________
३०८
दशवैकालिकं-टीकात्रिकयुतम् इत्यभिप्रायः, तेन तु गुरवः सुतरां पूजनीया इति. यतश्चैवं ?-अत आचार्या यत् किमपि वदन्ति तथा तथानेकप्रकारम्, भिक्षुः साधुस्तस्मात् तदाचार्यवचनं नातिवर्तयेद् युक्तत्वात् सर्वमेव सम्पादयेदिति. ।।९.२.१६ ।।।
(सु.) यदि तावदेतेऽपि तं गुरुं पूजयन्ति, अतः किं पुणं'ति, किं पुनः यः-साधुः, श्रुतग्राही-परमपुरुषप्रणीतागमग्रहणाभिलाषी, अनन्तहितकामुको-मोक्षं यः कामयत इत्यभिप्रायः, तेन तु सुतरां गुरवः पूजनीया इति, यतश्चैवम् ? आचार्या यद् वदन्ति किमपि तथाऽनेकप्रकारं, भिक्षुः-साधुः, तस्मात् तदाचार्यवचनं नातिवर्त्तयेत् युक्तत्वात्सर्वमेव सम्पादयेदिति ।।९.२.१६ ।।
नीयं सिज्जं गईं ठाणं, नीयं च आसणाणि य । नीयं च पाए वंदिज्जा, नीयं कुज्जा य अंजलिं ।।९.२.१७।।
(ति.) गुरुं प्रति विनयविधिमाह-नीचां शय्यां च-आचार्यशय्यातः | नीचां गतिम्आचार्यगतेः, तत्पृष्ठतो नातिदूरेण नातिद्रुतं यायात् । एवं नीचं स्थानम् । नीचान्यासनानि च । नीचैश्च-अवनतोत्तमाङ्गः । पादौ गुरोः वन्देत । कदाचिद् गुरुणोक्तः ‘एवं करोमीति भणन् नीचं शिरसि अञ्जलिं कुर्यात् ।।९.२.१७ ।।
(स.) अथ विनयस्योपायमाह-नीअं'इति-साधुर्गुरोः सकाशाच्छय्यां संस्तारकलक्षणां नीचां कुर्यात्, इत्युक्तिः, एवं साधुराचार्यगतेः सकाशात् स्वकीयां गतिं नीचां कुर्यात्, तस्य गुरोः पृष्ठतो नातिदूरेण नातिशीघ्रं यायादित्यर्थः, एवं स्थानं-यत्र स्थान आचार्य आस्ते, तस्मात् स्थानान्नीचं नीचतरे स्थाने स्थातव्यमिति भावः । पुनर्नीचानि लघुतराणि कदाचित् कारणजात आसनानि पीठकादीनि, तस्मिन्नुपविष्टे तदनुज्ञातः सन् सेवेत, नान्यथा. तथा नीचं च सम्यगवनतमस्तकः सन्नाचार्यस्य पादौ वन्दते नावज्ञया, तथा क्वचित् प्रश्नादौ नीचं नम्रकायं कुर्याच्च सम्पादयेच्चाञ्जलिं, न स्थाणुवत् स्तब्ध एवेति. ।।९.२.१७।।
(सु.) विनयोपायमाह-नीयं...इति, नीचां शय्यां-संस्तारकलक्षणामाचार्यशय्यायाः सकाशात् कुर्यादितियोगः, एवं नीचां गतिमाचार्यगतेस्तत्पृष्ठतो नातिदूरेण नातिद्रुतं यायादित्यर्थः, एवं नीचं स्थानमाचार्यस्थानाद्, यत्राचार्य आस्ते, तस्मान्नीचतरे स्थाने स्थातव्यमितिभावः । तथा नीचानि-लघुतराणि कदाचित् कारणजाते आसनानि-पीठकानि