________________
नवमम् अध्ययनम्
ते ललितेन्द्रिया-गर्भेश्वरा राजपुत्रादय इति ।।९.२.१४।।
वितं गुरुं पूइंति, तस्स सिप्पस्स कारणा | सक्कारंति नमंसंति, तुट्टा निद्देसवित्तिणो ।।९.२.१५ ।।
(ति.) तेऽपि तं गुरुम् - बन्धादिकारकमपि । पूजयन्ति - पूजावचनैः । तस्य शिल्पस्य कारणात् । सत्कारयन्ति - वस्त्रादिभिः । नमस्यन्ति - पादयोर्लगित्वा । तुष्टाः- हृष्टाः । निर्देशवर्त्तिनः- तदाज्ञाकारिणः । । ९.२.१५ । ।
३०७
(स.) तेवि इति - तेऽपि पुरुषाः शिक्षमाणाः, तमित्वरमपि गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनाभिनन्दनेन, किमर्थं तस्य शिल्पस्य कारणात्, तन्निमित्तमिति भावः । पुनस्तं गुरुं ते सत्कारयन्ति वस्त्रादिना, पुनस्तं गुरुं नमस्यन्ति अञ्जलि-प्रग्रहणादिना, किम्भूतास्ते ? तुष्टा इति, अमुत इदमवाप्यत इति तुष्टाः, पुनः किम्भूतास्ते ? निर्देशवर्तिन आज्ञाकारिणः इति. ।।९.२.१५।।
(सु.) तेऽवि तं इति, तेऽपि इत्वरं शिल्पादि शिक्षमाणाः, तं गुरुं बन्धादिकारकमपि पूजयन्ति - सामान्यतो मधुरवचनाभिनन्दनेन तस्य शिल्पस्येत्वरस्य कारणात्, तन्निमित्तत्वादिति भावः, तथा सत्कारयन्ति वस्त्रादिना, नमस्यन्ति अञ्जलिग्रहणादिना । तुष्टा इत्यमुत इदमवाप्यत इति हृष्टा, निर्देशवर्तिनः - आज्ञाकारिण इति ।।९.२.१५।।
किं पुण (णो ) जे सुयग्गाही, अणंतहियकामए । आयरिया जं वए भिक्खू, तम्हा तं नाइवत्तए ।।९.२.१६।।
(ति.) यदि तावदेतेऽपि तं गुरुं पूजयन्ति ततः - किं पुनर्यः श्रुतग्राही अनन्तहितकामकः - अनन्तकालं हितो मोक्षोऽनन्तहितः, तं कामयते यः सः, तथा तेन सुतरां पूज्या गुरवः । तस्माद् आचार्याः यद् वदन्ति । तद् भिक्षुः साधुः । नातिवर्तयेत्नोल्लङ्घयेत् ।।९.२.१६ ।।
(स.) किं' इति यदि तावदेतेऽपि तं गुरुं पूजयन्ति तदा यः साधुर्मोक्षवाच्छकः, तेन तु गुरवो विशेषतः पूजनीया इत्याह किं पुनः ? यः साधुः श्रुतग्राही परमपुरुषप्रणीतस्यागमस्य ग्रहणेऽभिलाषी. पुनर्योऽनन्तहितकामुकः, मोक्षं यः कामयत
१. अनन्तकालं हितः - अनन्तहितः, मोक्ष इत्यर्थः ।
૧