________________
३०६
दशवैकालिकं-टीकात्रिकयुतम् (ति.) इहलोकार्थिनोऽपि लोका गुरुविनयं कुर्वतो दृश्यन्ते इत्याह-आत्मार्थम्आत्मनो जीविकार्थम् । परार्थम्-इदं शिक्षितं सन् पुत्रादिकं शिक्षयिष्ये । शिल्पानिकुम्भादिकरणानि । नैपुण्यानि-लेख्यादिकलाकरणानि । गृहिण उपभोगार्थम्अन्नपानोपभोगाय । इहलोकस्य कारणेन शिक्षन्ते ।।९.२.१३।।
(स.) एवं मनस्यानीय साधुभिर्विनयः कार्य, इत्याह-अप्पणट्ठा इति-ये गृहिणोऽसंयता इहलोकस्य कारणमिहलोकनिमित्तमिति, उपभोगार्थमन्नपानादिभोगाय, शिक्षन्त इति शेषः. किमर्थम् ? आत्मार्थमात्मनिमित्तम्, अनेन ममाजीविका भविष्यति'इत्येवं, परार्थं वा परनिमित्तं वा पुत्र'अहमेतद् ग्राहयिष्यामि' इत्येवं शिल्पानि कुम्भकारक्रियादीनि, नैपुण्यानि च लेखादिकलालक्षणानि. ।।९.२.१३।।
(सु.) एतच्च मनस्याधाय विनयः कार्यः, इत्याह-अप्पणट्ठा इति, आत्मार्थंआत्मनिमित्तं, 'अनेन मे जीविका भविष्यति'इत्येवं, परार्थं वा-परनिमित्तं वा 'पुत्रमहमेतद् ग्राहयिष्यामि'इत्येवं, शिल्पानि-कुम्भकारक्रियादीनि नैपुण्यानि च-आलेख्यादिकलालक्षणानि, गृहिणः-असंयताः, उपभोगार्थं अन्नपानादिभोगाय, शिक्षन्त इति वाक्यशेषः, इहलोकस्य कारणं-इहलोकनिमित्तमिति ।।९.२.१३।।
जेण बंधं वहं घोरं, परियावं च दारुणं । सिक्खमाणा नियच्छंति, जुत्ता ते ललिइंदिया ।।९.२.१४।।
(ति.) येन-इति द्वितीयार्थे तृतीया, यत् शिल्पादिकं शिक्षमाणाः । बन्धम्दवरकादिना । व्य(व)धम-कम्ब्यादिना | घोरम्-तीव्रम् । परितापं च दारुणम्निर्भर्त्सनादिवचनजनितं गुरोः सकाशात् । नियच्छन्ति-अनेकार्थत्वात् प्राप्नुवन्ति युक्ताःशिल्पादिग्रहणे नियुक्ताः । ते ललितेन्द्रियाः-गर्भेश्वराः, राजपुत्रादयः ।।९.२.१४ ।।
(स.) जेण'इति-येन शिल्पादिना शिक्ष्यमाणेन, बन्धं निगडादिभिः, वधं कशादिभिः, घोरं रौद्रं, परितापं च दारुणमेतज्जनितं निर्भर्त्सनादिवचनं शिक्षमाणा गुरोः सकाशान्नियच्छन्ति प्राप्नुवन्ति, युक्ता इति नियुक्ताः शिल्पादिग्रहणे ते ललितेन्द्रिया लीलागर्भेश्वरा राजपुत्रादयः. ।।९.२.१४ ।।
(सु.) जेण'...इति, येन-शिल्पादिना शिक्ष्यमाणेन, बन्धं-निगडादिभिः, वधं कषादिभिर्घोरं-रौद्रं परितापं च, दारुणं-एतज्जनितमनिष्टं निर्भर्त्सनादिवचनजनितं च, शिक्षमाणा गुरोः सकाशात् नियच्छन्ति-प्राप्नुवन्ति, युक्ता, इति-नियुक्ताः शिल्पादिग्रहणे