________________
३०५
नवमम् अध्ययनम् कृतविनयाः, निरतिचारधर्माराधका इत्यर्थः, दृश्यन्ते सुखमेधमाना महाकल्याणादिषु ऋद्धिं प्राप्ता इति देवाधिपाऽऽदिप्राप्तसमृद्धयो महायशसो विख्यातसद्गुणा इति, एवं नारकान् विना व्यवहारतो येषु स्थानेषु सुखदुःखसम्भवस्तेषु विनयस्याविनयस्य च फलं कथितम्. ।।९.२.११।।
(सु.) विनयफलमाह-तहेव'इति, तथैवेति पूर्ववत्, सुविनीतात्मानो जन्मान्तरकृतविनया निरतिचार-धर्माराधका इत्यर्थः, देवा यक्षाश्च गुह्यका इति पूर्ववदेव, दृश्यन्ते सुखमेधमाना अर्हत्कल्याणकादिषु ऋद्धिं प्राप्ता इति देवाधिपादिप्राप्तड़यो महायशसोविख्यातसद्गुणा इति । एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु विनयाविनयफलमुक्तम्, ।।९.२.११।।।
जे आयरिय-उवज्झायाणं, सुस्सूसा-वयणंकरा | तेसिं सिक्खा पवड्ढति, जलसित्ता इव पायवा ।।९.२.१२।।
(ति.) अधुना विशेषतो लोकोत्तरविनयफलमाह-ये आचार्योपाध्याययोः । शुश्रूषावचनकरा:-शुश्रूषा-वैयावृत्यं, वचनम्-आदेशः, तत्कारिणः, | तेषाम्-पुण्यवताम् । शिक्षा-ग्रहणासेवनारूपाः । प्रवर्धन्ते, जलसिक्ता इव पादपा इति विज्ञाय विनयः कार्यः ।।९.२.१२।।
(स.) अथ विशेषतो लोकोत्तरं विनयफलमाह-जे'इति-ये सुशिष्या आचार्याणामुपाध्यायानां च शुश्रूषा-वचनकराः पूजाप्रधानं यद्वचनं तस्य करणे तत्परा भवन्ति, तेषां पुण्यवतां शिक्षा ग्रहणा-सेवनारूपा भावार्थरूपाः प्रवर्धन्ते वृद्धिं यान्ति, दृष्टान्तमाहजलसिक्ता यथा पादपा वृक्षाः. ।।९.२.१२।।
(सु.) अधुना विशेषतो लोकोत्तरविनयफलमाह-जे आयरिय...इति, ये आचार्योपाध्याययोः-प्रतीतयोः, शुश्रूषा-वचनकरा:-पूजाप्रधानवचनकरणशीलाः, तेषां पुण्यभाजां शिक्षा ग्रहणासेवनालक्षणा भावार्थरूपाः प्रवर्द्धन्ते-वृद्धिमुपयान्ति, दृष्टान्तमाहजलसिक्ता इव पादपा-वृक्षा इति ।।९.२.१२।।
अप्पणट्ठा परट्ठा वा, सिप्पा नेउणियाणि य । गिहिणो उवभोगट्ठा, इहलोगस्स कारणा ।।९.२.१३।।