________________
३०४
दशवैकालिकं-टीकात्रिकयुतम् इति पूर्ववत्, नवरं स्वाराधितनृप-गुरुजना उभयलोकसाफल्यकारिण एत इति ।।९.२.९ ।। एतदेव विनयाविनयफलं देवानधिकृत्याह
तहेव अविणीयप्पा, देवा जक्खा य गुज्झगा | दीसंति दुहमेहंता, आभिओगमुवट्ठिया ||९.२.१०।।
(ति.) देवानधिकृत्यैतदेवाह-देवाः-वैमानिकाः, ज्योतिष्काः । यक्षाः-व्यन्तराः | गुह्यकाः-भुवनपतयः । आगमचक्षुषा दृश्यन्ते । दुःखमेधमानाः-अनुभवन्तः । अभियोगः आज्ञापूर्वकं कर्मसु नियोजनं सोऽस्यास्तीत्यभियोगी, अभियोगिनो भावः आभियोग्यम् उपस्थिता-दासत्वं प्राप्ताः ।।९.२.१०।।
(स.) एतदेव विनयाऽविनयफलमाह-देवानधिकृत्य-तहेव'इति-तथैव, यथा नरनार्योऽविनीतात्मानः, तथैव जन्मान्तरे अकृतविनया देवा वैमानिका ज्योतिष्का यक्षाश्च व्यन्तराश्च गुह्यका भवनवासिनः, त एते दृश्यन्ते, केन ? आगमभावचक्षुषा, किं कुर्वाणाः ? दुःखमेधमानाः, परेषामाज्ञया परेषाम् ऋद्ध्यादिदर्शनेन च, कीदृशाः सन्तः ? आभियोग्यमुपस्थिताः, अभियोग आज्ञादानलक्षणः, सोऽस्यास्तीत्यभियोगी, तस्य भाव आभियोग्यं कर्मकरभावमुपस्थिताः प्राप्ताः. ।।९.२.१०।।
(सु.) एतदेवं विनयाऽविनयफलमाह-देवानधिकृत्य-तहेव इति, तथैव यथा नरनार्यः अविनीतात्मानो भवान्तरेऽकृतविनया देवा-वैमानिका ज्योतिष्का यक्षाश्च-व्यन्तराश्च गुह्यका-भवनवासिनः, त एते दृश्यन्ते आगमभावचक्षुषा दुःखमेधमानाः-पराज्ञाकरणपरर्द्धिदर्शनादिना, आभियोग्यमुपस्थिता:-अभियोग-आज्ञाप्रदानलक्षणोऽस्यास्तीति अभियोगी, तद्भाव आभियोग्यं, कर्मकर-भावमित्यर्थः, उपस्थिताः-प्राप्ता इति ।।९.२.१० ।।
तहेव सुविणीयप्पा, देवा जक्खा य गुज्झगा | दीसंति सुहमेहंता, इड्डि पत्ता महायसा ।।९.२.११।।
(ति.) विनयफलमाह-स्पष्टः ।।९.२.११।। (स.) अथ विनयफलमाह-तहेव'इति-तथैवैते देवादयः सुविनीतात्नानो जन्मान्तर
१. एतदेवाऽविनय... इति चेत् ?, साधु । अग्रेतन्याः विनयफलमाह' इत्यवतरणिकोक्तेः ।