________________
३०३
नवमम् अध्ययनम्
(ति.) तथा-दण्ड-शस्त्राभ्यां तदाघातैः । असभ्यवचनैश्च-खरकर्कशादिभिः । परिजूर्णा इव परिपूर्णा दुर्बलीकृताः । करुणाहेतुत्वात् करुणाः-दीनाः । विवर्णछाया:निःशोभाः। क्षुत्-पिपासाभ्यां परिगताः-कदन्नाल्पप्रायभोजनाः ।।९.२.८ ।।
(स.) दंड...इति-एवंविधाः साधव, इह लोके पूर्वमविनयेन गृहीतानां कर्मणामनुभावेनैवंभूताः, परलोके तु कुशलस्याप्रवृत्तेर्दुःखिततरा विजायन्ते, कीदृशाः? दण्डा वेत्रदण्डादयः, शस्त्राणि खड्गादीनि, तैः परिजीर्णाः, परि समन्ततो दुर्बलभावमापादिताः, तथा पुनः कीदृशाः ? असभ्यवचनैश्च खर-कर्कशादिभिः परिजीर्णाः, पुनः कीदृशाः ? करुणाः करुणाहेतुत्वात्, पुनः कीदृशाः ? व्यापन्नछन्दसः परायत्ततया गतस्वाभिप्रायाः, पुनः किम्भूताः ? क्षुधा बुभुक्षा, पिपासा तृषा, ताभ्यां परिगता व्याप्ताः, अन्नादिनिरोधस्तोकदानाभ्याम्. ।।९.२.८।।
(सु.) तथा-दंड-इति, दण्डा-वेत्रदण्डादयः, शस्त्राणि-खड्गादीनि, ताभ्यां परिजीर्णाः-समन्ततो दुर्बलभावमापादिताः, तथा असभ्यवचनैश्च-खरकर्कशादिभिः परिजीर्णाः, त एवंभूताः सन्तः सतां करुणाहेतुत्वात् करुणा-दीना, व्यापन्नच्छन्दस:परायत्ततया अपेतस्वाभिप्रायाः, क्षुधा-बुभुक्षया पिपासया-तृषा परिगता-व्याप्ता अन्नादिनिरोध-स्तोक दानाभ्यामिति । एवं इह लोके प्रागविनयोपात्तकर्मानुभावत एवंभूताः, परलोके तु कुशलाप्रवृत्तेः दुःखिततरा विज्ञायन्त इति ।।९.२.८ ।।
तहेव सुविणीयप्पा, लोगंसि नर-नारिओ | दीसंति सुहमेहंता, इढिं पत्ता महायसा ।।९.२.९।।
(ति.) विनयफलमाह-तहेव...इति] स्पष्टः ।।९.२.९ ।।
(स.) अथ विनयफलमाह-तहेव इति-अस्मिन् लोके नरनार्यस्तथैव विनीततिर्यञ्च इव सुविनीतात्मानो दृश्यन्ते, कीदृश्यो नर-नार्यः ? सुखमेधमानाः ऋद्धि प्राप्ताः, पुनः कीदृश्यः ? महायशस इति पूर्ववत्, नवरं स्वाराधितगुरुजना उभयलोकसाफल्यकारिण एत इति. ।।९.२.९।।
(सु.) विनयफलमाह-तहेव इति, तथैव विनीततिर्यंच इव सुविनीतात्मानो लोकेऽस्मिन् नरनार्य इति पूर्ववत् । दृश्यन्ते सुखमेधमानाः शुद्धिं प्राप्ता महायशस