________________
दशवैकालिकं- टीकात्रिकयुतम्
ऋद्धिगारवमतिः । पिशुनः- पृष्ठमांस- खादकः । नरः- नरव्यञ्जनं क्लीबप्रायः । साहसिकःअकृत्यकरणपरः । हीनप्रेषणः - प्रेषणे हीनः, अकिञ्चित्करः । अदृष्टधर्मा-सम्यगज्ञातधर्मा । विनये अकोविदः । असंविभागी - यत्र क्वचनलाभे सति न संविभागवान् । च इत्थंभूतोऽधर्मः, तस्य न मोक्षः ।। ९.२.२२ ।।
३१२
(स.) अथैतदेव दृढयन्नविनीतस्य फलमाह - जे ' इति - एवंविधस्य साधोर्मोक्षो नास्ति, कथं ? सम्यग्दृष्टेश्चारित्रवत इत्थंविध- सङ्क्लेशस्याभावात् एवंविधस्य कस्य ? यश्चापि चण्डः प्रव्रजितोऽपि रोषणः, पुनर्यो मतिऋद्धिगारव इति, ऋद्धिगौरवमतिः, ऋद्धिगौरवेऽभिनिविष्टः, पुनर्यः पिशुनः पृष्ठिमांस - खादकः, नरो नरव्यञ्जनको न भावनरः, पुनर्यः साहसिकोऽकृत्यकरणपरः, पुनर्यो हीनगुर्वाज्ञाकरः, पुनर्योऽदृष्टधर्मा, सम्यगनुपलब्धश्रुतादिधर्मा, पुनर्विनयेऽकोविदो विनयविषयेऽपण्डितः, पुनर्योऽसंविभागी, यत्र कुत्रापि लाभे न संविभागवान्. य इत्थंभूतस्तस्य न मोक्षः. । । ९.२.२२ ।।
(सु.) एतदेवदृढयन्नविनीतफलमाह - जे यावि... इति, यश्चापि चण्डः प्रव्रजितोऽपि यो रोषणः, मति-ऋद्धिगौरव इति ऋद्धिगौरव - मतिगौरवे अभिनिविष्टः, पिशुनःपृष्ठिमांसखादको, नरो-नरव्यञ्जनो न भावनरः, साहसिकः - अकृत्यकरणपरः, , हीनप्रेषणोहीनगुर्वाज्ञापरः, अदृष्टधर्म्मा - सम्यगनुपलब्धश्रुतादिधर्मा विनयेऽकोविदो - विनयविषयेऽपण्डितः, असंविभागी-यत्र क्वचन लाभे न संविभागवान्, य इत्थंभूतोऽधमो, नैव तस्य मोक्षः, सम्यग्दृष्टेश्चारित्रवत इत्थंविधसंक्लेशाभावादिति । । ९.२.२२ । ।
निद्देसवित्ती पुण जे गुरूणं, सुयत्थधम्मा विणयम्मि कोविया । तस्तुि ते ओघमिणं दुरुतरं, खवित्तु कम्मं गइमुत्तमं गय, त्ति बेमि ।।९.२.२३।।
(ति.) विनयफलाभिधानेनोपसंहरन्नाह - निर्देशवर्त्तिनः पुनर्ये गुरूणां श्रुतधर्मार्थाः, विनये च कर्तव्ये कोविदाः तीर्त्वा ते । एनं ओघम् - भवाब्धिप्रवाहम् । दुरुत्तरम् । केवलित्वं प्राप्य । क्षपयित्वा भवोपग्राहि कर्म । गतिमुत्तमाम् - सिद्ध्याख्याम् । गता । इति ब्रवीमि इति पूर्ववत् ।।९.२.२३ ।।
।। श्रीतिलकाचार्यटीकायां विनयसमाधौ द्वितीयोदेशकः समाप्तः ।।
१.'(ति) टीकायामत्र 'निर्देशवर्त्तिनः इत्यर्थो विहितः, (सु) टीकायां तु मूलपाठः 'निद्देसवित्ती' अस्त्यपि, किंतु सङ्केत स्तत्र 'निद्देसवत्ती' अस्ति, विवृत्तमपि (ति) टीकावत् निर्देशवत्तिनः' इति । चूर्णिपाठः 'निद्देवत्ती' इति.