________________
३००
दशवैकालिकं-टीकात्रिकयुतम् स्तब्धः जात्यादिमदोन्मत्तः, पुनर्दुर्वादी अप्रियवक्ता, पुनर्निकृतिमान् मायासहितः, पुनः शठः संयमयोगेष्वादररहितः, पुनरविनीतात्मा सकलकल्याणकारणेन विनयेन रहितः. ।।९.२.३।।
(सु.) अविनयवतो दोषमाह-जे य इति, यश्च चण्डो-रोषणः, मृगः-अज्ञो हितमप्युक्तो रुष्यति, तथा स्तब्धो-जात्यादिमदोन्मत्तो, दुर्वादी-अप्रियवक्ता निकृतिमान-मायोपेतः, शठः-संयमयोगेष्वानादृतः, एतेभ्यो दोषेभ्यो विनयं न करोति य, उह्यते असौ पापः संसारस्रोतसा अविनीतात्मा-सकलकल्याणैकनिबन्धनविनयरहितः, किम् ?-इवेत्याहकाष्ठं स्रोतोगतं-नद्यादिवहनीपतितं, यथा तद्वदिति ।।९.२.३।।
विणयं पि जो उवाएण, चोइओ कुप्पई नरो । दिव्वं सो सिरिमिज्जंति, दंडेण पडिसेहए ।।९.२.४।।
(ति.) किं च-विनयम्-प्रागुक्तं कर्तुमिति शेषः । उपायेन-विनय एव मोक्षहेतुरित्यादि मृदुवचनकलापेन । चोइओ-इति-गुरुणा प्रेरितः । यो नरः कुप्यति । सः-विनयप्रभवां दिव्यां श्रियमायान्तीं आत्मसाद् भवन्तीम् । दण्डेन । प्रतिषेधयति-निवारयति । उदाहरणं चात्र-कुरूपागतश्रीप्रार्थनाप्रणयभङ्गकारिणो दशारादयस्तविरहिता बभूवुः । तदभङ्गकारी तु कृष्णस्तद्युक्तोऽभूत् । ततश्च स कृष्णः सर्वत्र जगति श्रीपतिरिति ख्याति प्राप्तवान् ।।९.२.४।।
(स.) विणयंमि'(पि)इति-पुनः किञ्च यो नरो विनयमुक्तलक्षणं प्रत्युपायेनैकान्तमृदुभणनादि-लक्षणेनापि सम्बन्धेन चोदित उक्तः सन् कुप्यति रुष्यति, स किं करोति?इत्याह-स दिव्याममानुषीं श्रियं लक्ष्मीम्, आगच्छन्तीमात्मनो भवन्तीं, दण्डेन काष्ठमयेन, प्रतिषेधयति निवारयति, अयं परमार्थः-विनयः सम्पदा निमित्तं, तत्र स्खलितं यदि कश्चिन्नोदयति सगुणः, तत्रापि रोषकरणे वस्तुतः सम्पदा निषेधः ।।९.२.४।।
(सु.) किञ्च-विणयं पि...इति, विनयमुक्तलक्षणं, य उपायेनापि-एकान्तमृदुभणनादिलक्षणेनापि अपिशब्दस्य व्यवहितः सम्बन्धः, चोदित उक्तः, कुप्यति-रुष्यति नरः । अत्र निदर्शनमाह-दिव्यां-अमानुषीं, असौ-नरः, श्रियं-लक्ष्मीं आगच्छन्ती-आत्मनो भवन्ती, दण्डेन-काष्ठमयेन प्रतिषेधयति-निवारयति । एतदुक्तं भवति-विनयः संपदो निमित्तं, तत्र स्खलितं यदि कश्चिच्चोदयति सगुणः, तत्रापि रोषकरणेन वस्तुतः १. त्ति-प्रे. १.२.६-१२ ।। २. ०भूत् पुन. १.२.६-१२ ।।